वे ईश्वर पार्वतीं प्रति पदं कारिते सति । “तोरन्यतरखम्” इति शर्वे स्वणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य ( शमस्यं मन उच्छसितम् । पुनरुज्जीवनावकाशो भवतीति प्रत्याशमभूदित्यर्थः ॥ १४ ॥
अथेति । अथानूचानाः साङ्गवेदप्रवक्तारः । “'प्रभूचानः प्रवचने साझेऽधीती गुरोस्तु य:” इत्यमरः । `‘उपेयिवाननाश्वाननूचानश्च” इति निपातः॥ प्रीत्या कण्टकिताः पुलकितास्वयं येषां ते तथोक्तः । ते सर्वे मुनयो जगहु,रु हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः ॥ १५ ॥
यदिति । ब्रह्म वेदः ॥ “वेदस्तव तपो ब्रह' इत्यमरः । सम्ययमपूर्वकमाम्नातमधौप्तमिति यत् । अग्नौ विधिना हुतमिति यत् । सपश्चान्द्रायणादिकं तप्तमिति च यत्तस्याध्ययनेज्यातयोरूपस्य आश्रमत्रयसाध्यस्य कुटुम्नस्यापि कर्मय ह्त्वयैः समुदयाभिप्रायकमेकवचनमन्यथावृत्याअन्वयप्रसहात् । न च नपुंसकैकवद्भावोऽनपुंसकेनेति नियमात् ॥ फलं कार्यम् अद्य मोऽध्याकं विपम् । सुमिष्वनमित्यर्थः । कर्मणि सः॥ “पचो वः " इति निष्ठातस्य वत्वम् ॥ १६ ॥
तदेव फलमाह
यदिति । यद्यस्मात्कारणशगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्थाविषयमगोचरमात्मनः स्वस्य मनो-