पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
पञ्चमः सर्गः ।


करोति पादावुपगम्य मौलिना
विनिद्रमन्दाररजोऽरुणाङ्‌गुली ॥ ८० ॥
विवक्षता दोषमपि च्युतात्मना
त्वयैकमीशं प्रति साधु भाषितम्‌ ।
यमामनन्त्यात्ममुवोऽपि कारणं
कथं स लचक्ष्यप्रभवो भविष्यति ॥ ८१ ॥
अलं विवादेन यधा (२)[१]श्रुतस्त्व्या
तथाविधस्तावदरशेषमसु सः ।


 असम्पद इति ॥ प्रभिन्नो मदस्रावी दिग्वारणो दिग्गजो वाहनं य्य सः। ऎरावतेनोढ इत्यर्थः। वृषा दवेन्द्रोऽसम्पदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेमोपगम्य । प्रणम्येत्यर्थः । विनिद्राणां विकसितानां मन्दा- राणां कल्परुकुसुमानां रजोभिः परागैः अरुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्दादिनामपि वन्द्यस्व इन्दुमौलेः किं सम्पदा वृषारोहणे वा को दोष इत्यर्थः ॥ ८० ॥  यदुम्‌ “अलशक्ष्यजन्मता" (५। ७२) इति ततोत्तरमाह-- विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेन अतएव दोषं दूषणं विवक्षता वक्तुमिषच्छतापि त्वया ईशं प्रत्येकम्‌ “अलक्षयजन्मता" इत्येतदेकम्‌ । वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः। यम्‌ ईश्वरमात्मभुवोऽपि ब्रह्मणोऽपि ॥ "ब्रह्मात्मभुः सुरज्येष्टः" इत्यमरः ॥ कारणमामनन्ति उदाहरन्ति। विद्वास इति शेषः॥ "पाश्चध्नस्यास्त्रदास्म-” इत्यादिना मनादेशः॥ स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यन्मा भविष्यति । अनादिनिधनस्य भग- वतः कारणशङ्खाकलङ्कखे नागिष्यत इत्यर्थः ॥८१॥


  1. श्रुतम्‌ ।