सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
कुमारसम्भवे


(९)[]तदङ्गसंसर्गमवाप्य कल्पते
ध्रुवं चिताभस्मरजो विशुद्धये ।
तथाहि नृत्याभिनयक्रियाच्युतं
(१)[]विलिप्यते मौलिभिरम्बरौकसाम् ॥७९॥
असम्पदस्तस्य वृषेण गच्छतः
प्रभिन्नदिग्वारणवाहनो वृषा ।

लोपः । गजाजिनालसम्बि स्यात् । अथवा दुकूलधारि स्यात्। कपालमस्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात्। इन्दुशेखरं वा स्यात् । नावधार्यत न निर्धार्यते । सर्वं सभाव- तीत्यर्थः। एतेन “वमेव तावत्” ( ५ । ६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ ७८ ॥

 "अयुक्तरूपं किमतःपरं वद" (५। ६९ ) इति श्लोकोक्तं प्रत्याह -----

 तदिति । तत्स्य शिवस्याङ्गं तस्य संसर्गमवाप्यसाद्य चिता- भस्मैव रजो विशुद्धये कल्पते । अलं पर्याप्नोतीत्यर्थः । अल- मर्थयोगात् ‘नमःस्वस्तिस्वाहा--" इत्यादिना चतुर्थी ॥ ध्रुवं शोधकत्वम् । प्रमाणसिद्धमित्यर्थः । प्रमाणमेघाह--तयाहि। प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्चकचेष्टावि- शेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् । चिताभस्म रज - इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते । अशुद्धं चेत् कथमिन्द्रादिभिर्ध्रियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ ७९ ॥

 यदुक्तम् ‘दिगम्बरत्वेन निवेदितं वसु” (५। ७२ ) “इयं च तेऽन्या पुरतो विडम्बना (५ । ७० ) इत्यादि च तनोत्तर- माह----


  1. तदङ्गसंस्पशैम्।
  2. विलुप्यते ।