सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
कुमारसम्भवे ।


१४५

अथ वयस्यां परिपार्श्ववर्तिनों विवर्तितानञ्चननेत्रमैचत ॥ ५१ ॥ सखी तदौया तमुवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम् । यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५२ ॥

प्राप्तवद्रहस्यमुद्धाव्येत्यर्थः । अभिहितोक्ता सा पार्वती मनो तं हृदिस्थ वरं शंसितुं वक्तु न शशाक समर्था न अभूत् । लज्जयेति शेषः । अथो अनन्तरं परिपार्श्ववर्तिनीं वयस्यां सखीं विवर्तितं विचालितम् धनञ्जनं व्रतवशादर्जितकज्जलं नेत्र यस्मिन् कर्मणि तत्तथैचत । नेचसंज्ञयैव प्रत्युत्तरं वाचयाच कारेत्यर्थः ॥ ५९ ॥

सखीति ॥ तस्या: पार्वत्या इयं तदीया सखौ वयस्था तम् । “वर्णः प्रशस्तिः” इति चोरखामी । सोऽस्यास्तीति वर्णिगं ब्रह्मचारिणम् ॥ “ वर्षादब्रह्मचारिणि” इतीनिप्रत्ययः ॥ उवाच ब्रूते स्म । किमिति । हे साधी विद्वन् । तव कुतूहलं चेत् । श्रोतुमस्तीति शेषः । तर्हि निबोधावगच्छ । भाकर्णयेत्यर्थः ॥ बुध अवगमने" इति धातोर्भीवादिकाल्लोट् ॥ श्रोतव्यं किं नदाह-यस्तै लाभायेदं यदर्थम् ॥ अर्थेन सह नित्यसमास: सर्वलिङ्गता चेति वक्तव्यम्” इति वार्तिकनियमात् क्रियावि शेषणम् । एतया पार्वत्याम्भोजं पद्ममुष्णवारणमातपर्वामव वपुः शरौरं तपःसाधनं कृतम्। तपः प्रवृत्तिकारणमुच्यते श्रूय ॥ तामित्यर्थः ॥ ५२ ॥

"ह्मनःसङ्गसङ्ख्यो जागरः कशतारतिः । होत्यागोन्माद मूर्च्छान्ता इत्यनङ्गदशा दश” इति । तत्र पस्याः काविहाः सममनाहृत्यैव योजयति " यम्" इत्यादिभि: षड्भिः

११