कदाचिदासन्नसखीमुखेन सा |
प्रतीपयेत् प्रतिकूलयेत्। प्रतिनिवर्तयेदित्यर्थः। निम्नप्रवणम् पय इवेष्टार्थाभिनिविष्टं मनो दुर्वारमिति भावः ॥ अत्र दीपकानुप्राणितोऽर्थान्तरन्यासालङ्कारः ॥ ५ ॥
कदाचिदिति । अथ कदाचित् मनस्विनी स्थिरचित्ता सा पार्वती मनोरथज्ञमभिलाषाभिज्ञ पितरं हिमवन्तमासन्नसख्याप्तसखी सैव मुखमुपायः ॥ “सुखं निःसरणे वक्त्र प्रारम्भोपाययोरपि” इति विश्वः । तेन । फलोदयः फलोत्पत्तिरन्तोऽवधिर्यस्य तस्मै तपःसमाधये तपोनियमार्थमात्मनः स्वस्यारण्यनिवासं वनवासमयाचत ॥ “दुह्याचू-” इत्यादिना द्विकर्मकत्वम् ॥ ६ ॥
अथेति । अथ गौरी अनुरूपेण योग्येनाभिनिवेशेनाग्रहेण तुषतीति तथोक्ते न गरीयसा पूज्यतमेन गुरुणा पिया क्वताभ्यनुज्ञा तपः कुर्विति क्वतानुमतिः सती पश्चात्तपःसिबुत्तरकालं प्रजासु जनेषु तदाख्यया तस्य गौर्योः संज्ञया प्रथितम् । गीरीशिखरमिति प्रसिद्धमित्यर्थः। शिखण्डिमत् । न तु हिंस्रप्राणिप्रचुरमिति भावः । शिखरं शृङ्गं जगाम ययौ ॥ ७ ॥