सामग्री पर जाएँ

पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
पञ्चमः सर्गः ।


मनोषिताः सन्ति (३)गृहेषु देवता-
स्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं
शिरीषपुष्यं न पुनः पतत्रिणः ॥ ४ ॥
इति (४) ध्रुवेच्छामनुशासती सुतां
शशाक मेना न नियन्तुमुद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५ ॥

त्वात् ‘ध्रुवमपायेऽपादानम्’ इत्यपादानत्वमेव स्यात् । यथाहभाव्यकारः—“यच्स मिथ्या सम्प्राप्य निवर्तते तच्स “ध्रुवमपायेऽपादानम्” इति प्रसिध्दम्” ॥ ३ ॥

 सामान्यनिषेधमुक्ता विशेषनिषेधमाह-

 मनीषिता इति ॥ हे वत्से । मनस ईषिता इष्टा मनीषिताः ॥ शकन्धादित्वात् साधुः ॥ देवता: शच्यादयो गृहेषु सन्ति । त्वं ता आराध्रथेति शेषः । तपः क्क । तवेदं तावकम् ॥ “युष्मदस्मदोरन्यतरस्यां खञ्च” इत्यण्प्रत्ययः । “तवकममकावेकवचने" इति तवकादेशः ॥ वपुश्च क्क । तथाहि । पेलवं मृदुलं शिरीषपुष्पं भ्रमरस्य भृङ्गस्य पदं पदस्थितिं सहेत । पतत्त्रिणः पुनः पक्षिणस्तु पदं न सहेत। अतिसौकुमार्याद्दिव्योपभोगयोग्यं ते वपुर्न दारुणतपःक्षममित्यर्थः ॥ अत्त्र हष्टान्तालक्डारः ॥ ४ ॥

 इतीति ॥ इति एवमनुशासत्युपदिशन्ती मेना ध्रुवेच्छां स्थिरव्यवसायां सुतां पार्वतीमुद्यमादुद्योगात्तपोलक्षणान्नियन्तुं निवारयितुं न शशाक समर्था नाभूत् । तथाहि । ईप्सितार्थ इष्टार्थे स्यिरनिश्चयं मनो मिम्नाभिमुखं पयश्च कः