पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
चतुर्यः सर्ग: ॥

अविभज्य परण (४)तं मया
सहितः पास्यति ते स बान्धवः ॥ ३७ ॥
परलोकविधौ च माधव
स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमञ्जरी:
प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥
इति देहविमुक्तये चितां
रतिमाकाशभवा सरस्वती।
शफरीं ह्रदशोष(५)विरुवां
प्रथमा दृष्टिरि(?)वान्वकम्पयत् ॥ ३९ ॥
कुसुमायुधपत्नि दुर्लभ
स्तव भर्ता न चिराइविष्यति।

बान्धवः सखा स्मरः परत्र परलोके मया सहितः अविभज्य पाशत ॥ ३७ ॥

 परलोकेति । किञ्च । हे माधव वसन्त । परलोकविधौ पिण्डोदकादिकर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः सहकारमञ्जरोधृतवल्लरीर्निवपेद्देहि । हि यस्मात् कारणात्ते सखा स्खरः प्रियचूतप्रसवा यस्य स तथोक्तः ॥ ३८ ॥

 इतीति । इति देहस्य विमुक्तये शरीरस्य विसर्गीय स्थिताम्। खतनियमिति यावत् । रतिमाकाशभवा सरखत्यशरीरा वाग्द्वादशोषविक्लवां शदस्य जलाधारस्य शोषेण विक्लवां शफरीं प्रौीम् ॥ “प्रौष्ठौ तु शफरी द्वयो:’ इत्यमरः ॥ प्रथमा वृष्टिर्वर्षमिव अन्वकम्पयदनुकम्पितवती । सद्यसुवा चेवः ॥ “खपा दयानुकम्पाया स्यात्” इत्यमरः ॥ ३९ ॥


(४) यत्। (५) विलाम् । (६) अन्वकम्पत ।