पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
चतुर्यः सर्ग: ॥

________________

चतुर्थः सर्गः । अविभज्य परच ( 8 ) तं मया सहितः पास्यति ते स बान्धवः ॥ ३७ ॥ परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः । निवपेः सहकारमञ्जरी: प्रियचूतप्रसवो हि ते सखा ॥ ३८ ॥ इति देहविमुक्तये स्थितां रतिमाकाशभवा सरखती । शफरीं ऋदशोष (५) विक्लवां प्रथमा दृष्टिरि (६) वान्वकम्पयत् ॥ ३८ ॥ कुसुमायुधपत्नि दुर्लभ- स्तव भर्ता न चिराह विष्यति । ૧૧ बान्धवः सखा स्मरः परत्र परलोके मया सहितः प्रविभज्य प्रास्यति ॥३७॥ परलोकेति ॥ किञ्च । हे माधव वसन्त । परलोकविधौ पिण्डोदकादिकर्मणि स्मरमुद्दिश्य विलोलाः पल्लवा यासु ताः महकारमष्नरोतवल्लरीर्भिवपर्देहि । हि यस्मात् कारणात्त सखा स्मरः प्रियाखूतप्रसवा यस्य स तथोक्तः ॥ ३८ ॥ 1 नीति | इति देहस्य विमुक्तये शरीरस्य विसर्गाय स्थिताम् । कर्तानिययामिति यावत् । रतिमाकाशभवा सरस्वत्यशरीरा वाग्घ्रदशोषविक्लवां हृदस्य जलाधारस्य शोषेण विक्ववाम् शफरीं प्रौष्ठीम् ॥ “प्रौष्ठौ तु शफरी दयोः” इत्यमरः ॥ प्रथमा दृष्टिर्वर्षमिव अन्वकम्पयदनुकम्पितवतो सदयसुवाचेत्यर्थः ॥ " क्षपा दयानुकम्पा स्यात्" इत्यमरः ॥ ३८ ॥ (५) - विलाम् । (६) अन्यकम्पत । (४) यत् ।