पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/१०७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
कुमारसम्भवे ।

शिरसा प्रणिपत्य याचित
न्युपगूढानि सवेपथूनि च।
सुरतानि च तानि ते रहः
पर संस्मृत्य न शान्तिरति मे ॥ १७ ॥
रचितं रतिपण्डित त्वया
स्त्रयमीषु ममेदमार्तवम् ।
भियते कुसुमप्रसाधनं
तव तच्चारु वपुर्न दृश्यते ॥ १८॥
(६)विबुधैरसि यस्य दारुणै
रसमाप्ते (७)परिकर्मणि स्युतः।

 शिरसेति । हे स्मर । शिरसा प्रणिपत्य याचितानि सवेपनि सकम्यानि । ‘ट्टितोऽथुच्' इत्यथुच्प्रत्ययः । सत्विकातरोपलक्षणमेतत् । `स्तम्भप्रलयरोमाञ्चः स्वेदो वैवर्णंवेपथु। अशुश्रुवैस्वर्यमित्यष्टौ सात्विकाः परिकीर्तिताः” इति। उपगूढाग्यालिङ्गनानि च। नपुंसके भावे क्तः । तान्यनुभूतप्रकाराणि रद्द एकान्ते सुरतानि च संस्मृत्य में शातिर्नास्ति। अत्र समानकर्तृकत्वं दुर्घटं समानक्रियापेक्षास्तौति केचि ॥ १७ ॥

 रचितमिति । हे रतिपडित रतिकुशल । . त्वया ममा नेषु गवयवेषु स्वयं रचितम् । अत्रस्य प्राप्त आर्तवं वासन्तम् "ऋतोरण्” इत्यण्प्रत्ययः । सुमप्रसाधन प्रबभरणमिव भियतेवतिष्ठते । “ष्ट अवस्ने’ इति धातोस्तौदादिका कर्तरि लट् । तव तत् प्रसाधकं चात्र सुन्दरं वपुस्तु न दृशं ॥ १८ ॥


(६) विबुधैस्त्वमग । (७) प्रतिकर्मणि।