पृष्ठम्:Kalidasa's Śakuntala.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V. [3. b-] अभिज्ञानशकुन्तले 62 नैवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः खभाव एवैष परोपकारिणाम् ॥ १३ ॥ प्रतीहारी। देव । पसण्णसुहा सुत्थकप्पा विअ इसीओो दीसन्ति । राजा । ॥ शकुन्तलां निर्वण्यै ॥ अये । केयमवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव, पाण्डुपलाणाम् ॥ १४ ॥ प्रतीहारी । भट्टा । दंसणी आकेिदी खु लक्खीअदि । राजा । भवतु । अनिर्बण्यै खलु परकलत्रम् । 3शकुन्तला । ॥ उरसि हस्तं दत्त्वा । आत्मगतम् ॥ हिअअ । किं एवं वेवसि । अज्जउत्तस्स भावाणुषन्धं सुमरिअ धीरतणं दाव अवलम्बसु । पुरोधाः । ॥ पुरो गत्वा ॥ खस्ति देवाय । देव । एते खलु विधिवद 6र्चितास्तपखिनः । कविदेतेधूपाध्यायसंदेशः । तं देवः श्रोतुमर्हति । राजा । ॥ सादरम् ॥ अवहितो ऽस्मि । शिष्यौ । । हस्तमुद्यम्य ॥ भो राजन् । विजयतां भवान् । 9राजा । । सप्रणामम् ॥ सर्वानभिवादये बः । शिष्यौ । स्वस्ति भवते । राजा । अपि निर्वेि तपः । 12शिष्यौ । कुतो धर्मक्रियाविन्नः सतां रक्षितरि त्वयि । तमस्तपति घर्मीशौ कथमाविर्भविष्यति ॥ १५ ॥ राजा । ॥ आत्मगतम् ॥ सर्वथार्थवान्खलु मे राजशब्दः । । प्रकाशम् ॥ अथ भगवान्कुशली कम्यः । 3 शारवः । राजन् । स्याधीनकुशलाः खलु सिद्धिमन्तः । स भवन्तम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८२&oldid=83604" इत्यस्माद् प्रतिप्राप्तम्