पृष्ठम्:Kalidasa's Śakuntala.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv.22. d-] अभिज्ञानशकुन्तले चतुर्थो ऽङ्कः [56 शान्त्यै करिष्यसि पदं पुनराश्रमे ऽस्मिन् ॥ २२ ॥ गौतमी । जाद । परिही आदि दे गमणवेला । ता णिअत्तावेहि पिदरं । अध वा चिरेण वि एसा ण णिअत्तइस्सदि । ता णिअत्तदु भवं । 3 कण्वः । वत्से । उपरुध्यते मे तपोवनानुष्ठानम् । शकुन्तला । तवोवणवावारेण णिरुकण्ठो तादो । अहं उण उकण्ठाभाइणी सवुत्ता । 6कण्वः । अपि । किं मामेवं जडीकरोषि । । निःश्वस्य ॥ अपयास्यति मे शोकः कथं नु वत्से त्वयावचितपूर्वम् । उटजद्वारि विरूढं नीवारबलिं विलोकयतः ॥ २३ ॥ गच्छ । शिवास्ते सन्तु पन्थानः । ॥ इति निष्क्रान्ताः शकुन्तलया सह गौतमीशाङ्गरवशारद्वतमिश्राः ॥ 3सख्यौ । । चिरं विलोक्य सकरुणम् ॥ हृद्धी हद्धी । अन्तरिदा सउन्तला वणराईहिं । कण्वः ।* अनुसूये प्रियंवदे । गता वां सहचरी । निगृह्य शोकावेशं मामनु 6गच्छतम् । ॥ सर्वे प्रस्थिताः । उभे । ताद । सउन्तलाविरहिदं सुण्णं विअ तवोवर्ण पविसामो । कण्वः । लेहदृत्तिरेवंदर्शिनी । । सविमर्श परिक्रम्य । हन्त भोः । शकुन्तलां 9विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः । अर्थो हि कन्या परकीय एव तामेव संमेष्य परिग्रहीतुः । जातो ऽस्मि सद्यो विशदान्तरात्मा चिरस्य निक्षेपमिवार्पयित्वा ॥ २४ ॥ ॥ इति निष्कान्ताः सर्वे ॥ ॥ इति शकुन्तलाप्रस्थानं नाम चतुर्थो ऽङ्कः । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७६&oldid=83588" इत्यस्माद् प्रतिप्राप्तम्