पृष्ठम्:Kalidasa's Śakuntala.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

55] चतुर्थो ऽङ्क सह गौतमी गमिष्यति । शकुन्तला । । पितुरङ्गमालिष्य ॥ कधं दाणिं तादस्स अङ्कादो परिब्भट्टा 9मलअपव्वदुम्मूलिदा विअ चन्दणलदा देसन्तरे जीविदं धारइस्सं । ॥ इति रोदिति ॥ कण्वः । वत्से । किमेवं कातरासि । अभिजनवतो भर्तुः श्लाध्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैरस्य प्रतिक्षणमाकुला । तनयमचिरात्माचीवार्क प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ २१ ॥ शकुन्तला । । पादयोः पतित्वा ॥ ताद । वन्दामि । कण्वः । वत्से । यदहमीहे तदस्तु ते । 3शकुन्तला । । सख्यावुपेत्य ॥ सहीओ । एध। दुवे वि मं समं जेव परिस्सअध । सख्यौ । । तथा कृत्वा ॥ सहेि। जइ कदा वि सो राएसी पञ्चहिण्णाणमन्थरो भवे तदो से अत्तणो णामधेअङ्गिदं अङ्गुलीअअं दंसइस्ससि । 6शकुन्तला । इमिणा संदेहेण वो कम्पिदं मे हिअअं । सख्यौ। सहेि । मा भाआहेि । सिणेहो पावं आसङ्कदि । शाङ्गरवः । । विलोक्य ॥ भगवन् । अगान्तरमधिरूढः सविता । तत्त्वरतां शकुन्तला । ॥ भूवः पितुरङ्गमालिष्य ॥ ताद । कदा णु क्खु भूओ तवोवणं पेक्खिस्सं । 12 कण्वः । वत्से । भूत्वा चिराय सदिगन्तमहीसपत्री दौःषन्तिमप्रतिरथं तनयं प्रसूय । तत्संनिवेशितधुरेण सहैव भत्र [Digiti280 )

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७५&oldid=83586" इत्यस्माद् प्रतिप्राप्तम्