पृष्ठम्:Kalidasa's Śakuntala.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

53] चतुर्थो ऽङ्क [-iv. 17.5 जदा सुहप्मसवा भवे तदा मे कं पि पिअणिवे अणइत्तअं विसज्जइस्सध । मा एदं विसुमरिस्सध । 9कण्वः । वत्से । नेदं विस्मरिष्यामि । शकुन्तला । ॥ गतिभेदं रूपयित्वा ॥ अम्मो । को णु क्खु एसो पदकन्तो विअ मे पुणो पुणो वसणन्ते सज्जदि । ॥ परिवृत्यावलोकयति ॥ 12 कृण्वः । यस्य त्वया व्रणविरोहणमिङ्गुदीनां । तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सो ऽयं न पुत्रकृतकः पदवीं सृगस्ते ॥ १६ ॥ शकुन्तला । वच्छ । किं मं सहवासपरिचाइणिं अणुबन्धसि । णं अचिरप्प सूदोवरदाए जणणीए विणा जधा मए वदिो सि तधा इदाणिं पि 3मए विरहिदं तादो तुमं चिन्तइस्सदि । ता णिअत्तसु वच्छ णिअक्तसु । ॥ इति रुदती प्रस्थिता ॥ कण्वः । वत्से । अलं रुदितेन । स्थिरा भव । इतः पन्थानमवलोकय । उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्ति बाष्पं कुरु स्थिरतया शिथिलानुबन्धम् । अस्मिलक्षितनतेोमतभूमिभागे मार्गे पदानि खलु ते विषर्मीभवन्ति ।। १७ ।। शाङ्गरवः । भगवन् । उदकान्तं लिग्धो ऽनुगम्यत इति स्मर्यताम् । तदिदं सरसीतीरम् । अत्र नः संदिश्य प्रतिगन्तुमर्हसि । 3 कण्वः । तेन हीमां क्षीरदृक्षच्छायामाश्रयामः । । सर्वे तथा नाटयन्ति । कण्वः । किं नु खलु तत्रभवतो दुःषन्तस्य युक्तरूपं संदेष्टुम्। ॥ इति चिन्तयति ॥ अनुसूया । सहि । ण णो अस्समपदे अत्थि को वि चित्तवन्तो जो [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७३&oldid=83582" इत्यस्माद् प्रतिप्राप्तम्