पृष्ठम्:Kalidasa's Śakuntala.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

iv.7.6-] 6 कण्वाय निवेदयामि । ॥ इति निष्क्रान्तः ॥ अनुसूया। सहेि । अणणुभूदभूसणो अअं जणो कधं तुमं अलंकरेदु । ॥ चिन्तयित्वा विलोक्य च ॥ चित्तपरिचएण दाणिं दे अङ्गेसुं आहरण विणिओोअं करेम्ह् । शकुन्तला । जाणामि वो णिउणत्तणं । । सख्यौ नाट्येनालंकारमायुञ्जाते ॥ ॥ ततः प्रविशति स्रानोत्तीर्णः कण्वः । 0 12 कण्वः । यास्यत्यद्य शकुन्तलेति हृदयं स्पृष्टं समुत्कण्ठया अन्तर्वाष्पभरोपरोधि गदितं चिन्ताजडं दर्शनम् । वैङ्कब्यं मम तावदीदृशमहो ज्ञेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥ ८ ॥ ॥ इति परिक्रामति ॥ सख्यौ। हला सउन्तले । अवसिदमण्डणा दाणिं सि तुमं । संपदं परिधेहेि 3 एदं विचित्तं खोमजुअलं । ।॥ शकुन्तला उत्थाय नाठ्येन परिधते ॥ गैौतमी। जाद । एसो दे आणन्दवाहपरिवाहिणा लोअणेण परिस्सअन्तो विअ गुरू उबत्थिदो । ता समुदा आरं पडिबज्जसु । ॥ शकुन्तला सत्रीडा 6बन्दनां करोति ॥ कण्वः । वत्से । ययातेरिव शर्मिष्ठा पत्युर्वहुमता भव । पुत्रं त्वमपि सम्राजं सेव पूरुमवाहि ॥ ९ ॥ गौतमी । जाद । बरो क्खु एसो ण उण आसिसा । कण्वः । वत्से । इतः सद्योहुताग्रीन्मदक्षिणीकुरुष्व । ॥ सर्वे परिक्रामन्ति ॥ 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७०&oldid=83577" इत्यस्माद् प्रतिप्राप्तम्