15] प्रथमो ऽङ्कः प्रियंवदा । तेण हि णारिहृदि इमं अकुरीअविओअं काढुं अज्जो । अजस्स वअणादो ज्जेव अरिणा एसा भोदु । 6 अनुसूया । हला सउन्तले । मोआविदा सि अणुकम्पिणा अजेण अध वा महाराएण । ता कहेिं दाणिं गमिस्ससि । शकुन्तला । ॥ आत्मगतम् ॥ ण एदं परिहरिस्सं जइ अत्तणो पहवे । 9प्रियंवदा । संपदं किं ण गच्छी अदि । शकुन्तला । इदाणिं पि किं तुह आअक्त म्हि । जदा मे रोआदि तदा गमिस्सं । 12 राजा । ॥ शकुन्तलां विलोकयन्नात्मगतम् ॥ किं नु खलु यथा वयमस्यामे वमियमप्यस्मान्मति स्यात् । अथ वा लब्धावकाशा मे मनोवृत्तिः । वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्ण ददात्यवहिता मयि भाषमाणे । कामं न तिष्ठति मदाननसंमुखीयं भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ ३० ॥ नेपथ्ये । भो भोस्तपस्विनः । तपोवनसंनिहितसत्त्वरक्षणाय सज्जीभवन्तु भवन्तः । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुःषन्तः । तुरगखुरहतस्तथा हि रेणुर्विटपनिषक्तजलावल्कलेषु । पतति परिणतारुणमकाशः शलभसमूह इवाश्रमदुमेषु ॥ ३१ ॥ राजा।। खगतम् ॥ अहो धिक् । कथं मदन्वेषिणः सैनिकास्तपोवनमभिरुन्धन्ति। पुनर्नेपथ्ये । भो भोस्तपखिनः । पर्याकुलीकुर्वन्द्धस्त्रीकुमारकानेष प्राप्तः तीव्राघातादभिमुखतरुस्कन्धभप्रैकदन्त [–1.32.d मूर्ती विघ्रस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं विरुजति गजः स्यन्दनालोकभीतः ॥ ३२ ॥
पृष्ठम्:Kalidasa's Śakuntala.djvu/३५
दिखावट