1.27.a-]
अभिज्ञानशकुन्तले
भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः ।
आशङ्कसे यदभिं तदिदं स्पर्शक्षमं रजम् ॥ २७ ॥
शकुन्तला । ॥ सरोषमिव ॥ अणुसूए । गमिस्सं अहं ।
अनुसूया । किं णिमित्तं ।
3३शकुन्तला । इमं असंबद्धप्पलाविणिं पिअंबदं अज्जाए गोदमीए गदुअ
णिवेदइस्सं । । इत्युत्तिष्ठति ॥
अनुसूया। सहि । ण जुत्तं अस्समवासिणो जणस्स केिदसकारं
6 दिधिविसेसं उज्झिअ सच्छन्दो गमणं । ।॥ शकुन्तला उत्तरमदत्वैव प्रस्थिता ।
राजा । । अपवार्य ॥ कथं गच्छति । ॥ उत्थाय जिघृक्षुरिवेच्छां निगृह्य ॥ अहो ।
चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि
अनुयास्यन्मुनितनयां सहसा विनयेन वारितमसरः ।
खस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ।। २८ ।।
प्रियंवदा । । शकुन्तलामुपसृत्य ॥ हला चण्डि । ण लब्भदि गन्तुं ।
शकुन्तला । ॥ परिवृत्य सभूभङ्गम् ॥ किं ति ।
3 प्रियंवदा । दुवे मे रुक्खसे अणके धारेसि । तेहिं दाव अत्ताणअं मोआवेहेि
तदो गमिस्ससि । ॥ इति बलान्निवर्तयति ॥
राजा । वृक्षसेचनादेवात्रभवतीं परिश्रान्तामवगच्छामि । तथा खस्याः
स्रस्तांसावतिमात्रलोहितलौ बाहू घटोत्क्षेपणा
दद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने घर्माम्भसा जालकं
बन्धे स्रसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ २९ ॥
तदहमेनामनृणां करोमि । । इत्यझुरीयकं ददाति । सख्यौ प्रतिगृह्य नामाक्षराणि
वाचयित्वा च परस्परमवलोकयतः ॥
3राजा । अलमन्यथासंभावनया । राज्ञः प्रतिग्रहो ऽयम् ।
0.८०० (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/३४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
