i.2.b-] अभिज्ञानशकुन्तले ततस्ततः प्रेरितवामलोचना विवर्तितधूरियमद्य शिक्षते भयादकामापि हि दृष्टिविभ्रमम् ॥ २२ ॥ अपि च । । सासूयमिव ॥ चलापाङ्गां दृष्टि स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव खनसि मृदु कर्णान्तिकचरः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २३ ॥ शकुन्तला । हला । परित्ताअध मं इमिणा दुट्टमहुअरेण अभूिअमाणं । उभे । ॥ सस्मितम् ॥ काओ अम्हे परित्ताणे । एत्थ दाव दुस्सन्तं सुमर 3 जदो राअरक्खिदाई तवोवणा । राजा । अवसरः खल्वयमात्मानं दर्शयितुम् । न भेतव्यम् । । इत्यर्धेते ऽपवार्य ॥ एवं राजाहमिति परिज्ञानं भवेत् । भवतु । अतिथिसमाचारमबल 6म्बिष्ये। शकुन्तला । ण एसो दुव्विणीदो विरमदि । ता अण्णदो गमेिस्सं । ॥ पादान्तरे सदृष्टिविक्षेपम् ॥ हद्धी हद्धी । कधं इदो वेि मं अणुसरदि । ता 9परित्ता अध मं । राजा । । सत्वरमुपगम्य ॥ अाः । [1० कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् । अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ २४ ॥ ॥ सर्वा राजानं दृष्टा किं चिदिव संभ्रान्ताः ॥ अनुसूया। अज्ज । ण किं पि अञ्चाहिदं । किं तु इअं णो पिअसही 3 महुअरेण आउलीअमाणा कादरीभूदा । ।॥ इति शकुन्तलां दर्शयति ॥ [Digitized by (Google
पृष्ठम्:Kalidasa's Śakuntala.djvu/३०
दिखावट