पृष्ठम्:Kalidasa's Śakuntala.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

91] षष्ठो ऽङ्कः [– wi. 34.6 अयमिदानीं न भवसि । । चापमारोप्य ॥ पार्वतायन । सोपानमार्गमादेशय । 3कञ्चुकी । इत इतो देवः । ॥ सर्वे सत्वरमुपसर्पन्ति । राजा । ॥ समन्तादवलोक्य । अये । शून्यमिदम् । नेपथ्ये । परिक्ताहि परिक्ताहि । अहं भवन्तं पेक्खामि तुमं ण मं पेक्खसि । 6मज्जारगहिदो विअ उन्दुरो णिरासो म्हि जीविदे । राजा । भोस्तिरस्करिणीगति । किं मदीयमस्रमपि त्वां न पश्यति । स्थिरो भव । मा च ते वयस्यसंपर्काद्विश्वासो भूत् । एष तमिषं संदधे यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ ३३ ॥ ॥ इति शस्र संधत्ते ॥ ॥ ततः प्रविशति मातलिर्विदूषकश्च । 3मातलिः । आयुष्मन् । कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षुषि न दारुणाः शराः ॥ ३४ ॥ राजा । । ससंभ्रममस्रमुपसंहरन् ॥ अये । कथं मातलिः । स्वागतं देवराज सारथे । 3विदूषकः । भो । मणं म्हि इमिणा अहं पसुमारणेण मारिढुं ण पारिदो । भवं उण इमं सा देण अहिणन्ददि । मातलिः । ॥ समितम् ॥ आयुष्मन् । श्रूयतां यदर्थमस्मि हरिणा त्वत्सकाशं 6प्रेषितः । 0.८०० (Google