पृष्ठम्:Kalidasa's Śakuntala.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi.29.7-] कञ्चुकी । आभज्ञानशाकुन्तल नेपथ्ये । तस्याग्रभागादृहनीलकण्ठे सखा प्रकाशेतरमूर्तिना ते केनापि सत्त्वेन निगृह्य नीतः ।। ३० ।। राजा । । सहसोत्थाय ॥ आः । ममापि सत्वैरभिभूयन्ते गृहाः । अथ वा बहुप्रत्यवाय पत्वम् । अहन्यहन्यात्मन एव ताव ज्ज्ञातुं प्रमादस्खलितं न शक्यम् । प्रजासु कः केन पथा प्रयाती त्यशेषतः कस्य पुनः प्रभुत्वम् ॥ ३१ ॥ नेपथ्ये । अविद अविद भो । राजा । ॥ आकण्र्य गतिभेदं रूपयन् ॥ सखे । न भेतव्यं न भेतव्यम् । 3नेपथ्ये । भो । कधं ण भाइस्सं । एसो मं को वि पच्छामोडिअ सिरोधरं इक्खं विअ भग्गगण्ठिं करिढुं इच्छदि । राजा । ॥ सदृष्टिविक्षेपम् ॥ धनुर्धनुस्तावत् । 6प्रविश्य धनुर्हस्ता यवनी । भट्टा । एदं ससरं सरासणं हत्थाबाओ अ । ॥ राजा सशरं धनुरादत्ते ॥ [9० एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमेिव हन्मि चेष्टमानम् । आर्तानां भयमपनेतुमात्तधन्वा दुःषन्तस्तव शरणं भवत्विदानीम् ॥ ३२ ॥ राजा । ॥ सक्रोधम् ॥ कथं मामेवोद्दिशति । आः । तिष्ठ तिष्ठ कौणपापसद ।