पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/350

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतो निक्षिसं भातङ्गश्चरणस्तम्भशृच्छति । ’ । विषमस्थानशवनादजीव्पव्यसनादपि ॥ गुरुबन्धप्रयोगाद्वा लङ्घनपुवनादपि । स्तब्धो भवति गात्रेषु ततस्तिष्ठति वारणः ॥ गात्रेणापरया वाsपि तेनातीव च दुर्मनाः । तिष्ठत्यालानमाश्रित्य न च पादेन तिष्ठति ॥ इति स्तब्धं समुद्दिष्टं चिकित्सा तस्य वक्ष्यते । सेचनं सर्वगात्राणां तस्य तैलेन कारयेत् । ततः कुर्यादिमं सम्यग्विर्धेि शास्त्रविनिश्चितम् । तस्यायोगुडतमेन जलेन परिषेचनम् ॥ कम्बलादृतगात्रस्य कारयेत्सततं भिषक् । अथवा शिग्रुवेणूनामुरुबूकार्कयोरपि । वासन्त्याः शीतकल्पस्य तकॉर्याः सुरसस्य च । भङ्गानादाय विधिवत्स्थाल्यामाधाय पाचयेत् ॥ अथास्याः कारयेन्नार्डीं यथा संप्रति सिद्धये । मध्ये वितस्तिविस्तीर्णा मूले चारत्निनिर्मिता ॥ मुखे षड्ङ्गुला कार्या नाडी तस्या महीपते । ets e o 'o o osoe नाहतसंस्थानवृत्ता गोपुच्छसंस्थिता ॥ तथा स्वभ्यक्तगात्रस्य निवातस्थस्य दन्तिनः । हस्तैश्वापि भवेत्कार्य सर्वतः परिमर्दनम् । कुटजस्याग्निमन्थस्य मेषशृङ्गीकपित्थयोः । वरुणभूधककस्प पत्राण्यारग्वधस्य च । आनु(ढ)र्की सप्तपर्ण च तथा सैरेयकावुभौ । स्थाल्यामाधाय क्र्तेब्यो नाडीश्वे(स्वे)दः पुनः पुनः । श्वि(स्वि)नस्य च भवेत्कार्यै मर्दनं लगुडाध्वनेः (?) ॥ अयमन्यो विधिः कार्यो राजन्मार्गॆवकारणम् । महिषस्य वराहस्य मार्जाराणां गवामपि । खरोष्ट्राणां च मांसानि ग्राह्माण्यस्थीनि चाप्यथ । छेयित्वा ततस्तानि नाडीस्वेदं प्रकल्पयेत् ॥ --سسخفسسـ १ ख. °जील्पव्य° ॥