पृष्ठम्:Hastyayurvedha1 (Revised) - cutted.pdf/3

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२) अङ्गरामेन सख्यं च तस्य राज्ञो भविष्यति । कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः । तं स राजा दशरथो गमिष्यति महायशाः ' ।। इत्यादिना रामायणबालकाण्डकथानकेनाङ्गाधिपरोमपादस्य दशरथस्य च सख्यवर्णनेन समकालवृत्तित्वनिश्चयेन रोमपादमहाराजप्रश्नोत्तरदातृपालकाप्यमुनेरपि दशरथसमकालवर्तित्वमेव निश्चीयते । अत एवाग्निपुराणे भगवता व्यासेनापि षट्सप्तत्यधिकद्विशत(२७१)मितेऽध्याये गजायुर्वेदः पालकाप्योपदेशरूप एव दरैिीतः । आनेिपुराणस्य भगवद्वेदव्यासारचितत्वमावेदयन्त आधुनिकास्तु ‘अष्टादशपुराणानां कर्ता सत्यवतीसुतः' इत्यापामरप्रसिद्धिप्रतिकीलिता एव न श्रद्धालुभिरादरणीयाः । दशरथमहाराजप्रादुर्भावसमयस्तु चतुर्वैिशास्रेतायुगः' इति “चतुर्विशे युगे रामो वसिष्ठेन पुरोधसा । समो रावणस्यार्थे जज्ञे दशरथात्मजः' । इति मत्स्यपुराणीयसप्तचत्वारिंशाध्याये ( २४२) लोकतोऽवगम्यते । ༈ཁའ།༽ गतातिप्राचीनत्वस्यास्य ग्रन्थस्य पुस्तकचतुष्टयमस्माभिरासादितम् । तत्र- \ (क) संज्ञकम्-जयपुरमहाराजाश्रितायुर्वेदाध्यापककच्छवंशादिकाव्यकवयितृश्री ’ ‘कृष्णशार्मणाम्। い、“ & (ख) संक्षकम्-पुण्यपत्तनीयराजकीयपुस्तकागारस्थम् । (ग) संज्ञकम्–कलकत्तानगरीयराजकीयपुस्तकांगारस्थम् । (घ.) ཡོད་ན་རག་ལྟར་ན་ད་ལྟ་གང་དག་ད་ལྟ་ཨོཾ་ཧཱ་དེ་ཝ་ཏི་ལིའུ་ཨམ་༣ शर्मणाम् । बहुकालभ्रष्टपठनपाठनकेऽस्मिन्ग्रन्थेऽशुद्वित्रुटिबाहुल्येऽप्यभिप्रायस्त्ववगम्यत एव । ईति निवेदयति भूतपूर्वजयपुरराजकीयसंस्कृतपाठशालाध्यापकः संप्रति लाहोरस्थसंकृतपाठशालाप्रथमाध्यापकः काव्यमालासंपादकश्व पण्डितशिवदत्तशमो ।