पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अङ्क:- १० हनुमन्नाटकं - तन्मामादिश पश्य पश्य च बलं भृत्यस्य यत्कौतुकं प्रोद्ध प्रतिनामितुं प्रचलितुं नेतुं निहन्तुं क्षमः ॥ ११ ॥ देवेति । पूर्वार्धे स्पष्टमेव । तत्तस्मात्कारणान्मामादिशाज्ञापय | भृत्यस्य मम यत्कौतुकमाञ्चर्यकर्तृ वलं तत्पश्य | पश्येत्यादरे वीप्सा । किं वलमिति चेत्तन्नाह - एतद्धनुः प्रोद्धर्तु, भूमेः प्रतिनामितुं नम्रोकर्तु, प्रचलितुं कोणगुणालोकनाय चपल- यितुं, नेतुमितो गमयितुं, निहन्तुं भग्नीकर्तु क्षमोऽस्मि । किं पुनराकर्पणमात्रमिति भावः । 'पिनाकोऽजगवं धनुः' इत्यमरः । ममैवात्रेदृशीशक्तिः । भवन्तस्तु ब्रह्माण्डोद्धरणसहा इति द्योतितम् ॥ ११ ॥ रावणपुरोहितो जनकं प्रति- दातव्येयमवश्यमेव दुहिता कस्मैचिदेनामसौ दोः क्रीड़ामशकीकतत्रिभुवनो लंकापतिर्याचते । तत्किं मूढवदीक्षसे ननु कथागोष्ठीषु नः शासते तद्वृत्तानि परोरजांसि मुनयः प्राच्या मरीच्यादयः ॥ १२॥ पुनः रामं प्रति- समंतादुत्ता : सुरसहचरीचामरमरु- त्तरङ्गैरुन्मीलगुजपरिघसौरभ्यशुचिना | स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि धृता- मरे राम त्वं मा जनकपतिपुत्रीमुपयथाः ॥ १३ ॥ जनक:- - माहेश्वरं धनुः कुर्यादधिज्यं चेद्ददामि ताम् । पुरोहित:- गुरोः शंभोर्धनुनों चेच्चूर्णतां नयति क्षणात् ॥ १४ ॥ तयोरेवं वदतोरेतदन्तरमासाद्य रावणपुरोहितो जनकमनुवदति- दातव्येति भो जनक, इयं सर्वोत्तमा दुहिता कस्मैचिदयाचतेऽपि वराय दातव्यैव । असौ -