१. ] दीपिकाख्यव्याख्योपेतम् । १९ प्रसिद्धः कुलाचारः। एतेन कौलीन्यमुक्तम् | लङ्कापतिः । अनेनैश्वर्यमुक्तम्। दोः क्रीडामशकी - कृतत्रिभुवनः । एतेन कल्पत्वमुक्तम् । भुजक्रीडानिर्जितत्रिभुवनः । यद्वा भुजक्रीडया मशकीकृतं निश्चेतनीकृतं त्रिभुवनं येन । 'दंशाचेतनयोमेशा ' इति विश्वः । मश एव मशकः । एवं भूतो रावणः एनां स्वयमेव याचते तत्तस्मादज्ञातार्थवदीक्षसे विचार- यसि । ननु वितर्फे। प्राग्भवाः प्राच्या मरीच्यादयो मुनयस्तद्वृत्तानि रावणचार- तानि कथागोष्ठीषु नोऽस्माशासते कथयन्ति । किंभूतानि । परोरजांसि शुद्धानि । यद्वा रजोभ्यो भूरेणुभ्यः पराण्यधिकानि परोरजांसि । परसूशब्दं निपातनं मन्यते भोजराजः । इत्यादिविशिष्टगुणोऽयं याचते तस्मादस्मै दातव्येति भावः । 'ननु कथागोष्ठीषु तस्वासती ' इति पाठे नु इति वितर्फे । गोष्ठीपु पुरावृत्तवर्णनरूपासु तस्य रावणस्य कथा इयमितिरूपा काचित्सासती मिथ्या न । सत्यैवत्यर्थः । यद्वा तस्य लङ्कापतेर्वृत्तं शीलमिव शीलं येषां तानि । मध्यमपदलोपी समासः । रजसः प्रकृतेः परं परोरजः परब्रह्म तद्रूपाणि । यद्वा तस्य वृत्तानि शीलान्यप्याचरन्तीति शेपः । ननु महीयान्कथं याचते इति चेत्तनाह - ' साधारणो निरातङ्कं कन्यामन्यो- ऽपि याचते । किं पुनर्जगतां नेता स पौत्रः परमेष्ठिनः ॥ १२ ॥ १३ ॥ १४ ॥ जनकः विहस्य- शम्भोरावासमचलमुत्क्षेप्तुं भुंजकौतुकी । माहेश्वरं धनुः क्रष्टुमर्हते दशकंधरः ॥ १५ ॥ - धनुराकर्षणे रावणशक्ति द्योतयति काकूक्त्या - दशकन्धरः माहेश्वरं धनुः ऋष्टुमा- ऋष्टुं योग्योऽस्ति । किंभूतः । शम्भो: आवासस्थानमचलमुत्क्षेप्मुमुद्धर्तु भुजफौतुकी भुजे कौतुकमस्यास्तीति गुरोगृहमुद्धर्तुम् । किं पुनस्तद्धनुरिति भावः ॥ १५ ॥ जनकः सीतां प्रति सखेदम्- माहेश्वरो दशग्रीवः क्षुद्राश्वान्ये महीभुजः । पिनाकारोपणं शुल्कं हा सीते किं भविष्यति ॥ १६ ॥ दशग्रीवो धनुरारोप्य त्वां लङ्कां नेष्यति । अथवा कञ्चिन्नृपस्त्वां दूरदेशं नेष्य- तीति खेदः । इत्यर्थ श्रुत्वा सीता पुनः खिद्यमाना तदेव ' कमठपृष्ठकठारेम्" इति पद्यं पुनः पठति । पुनः पठिते पुरोहितः सक्रोधम् ॥ १६ ॥ ८
पृष्ठम्:HanumannatakamOfDamodaraMisraWithDipikaKhemraj1909.djvu/१०
दिखावट