पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः. शिविनां षोडशभाग: स्वगुणते तमालषण्डेऽस्थात् । शेषनवांश: स्वहतश्चतुरप्रदशापि कति ते स्युः ॥ ५९ ॥ जले त्रिंशदंशाहतो द्वादशांश: स्थितश्शेषविंशो हतः षोडशेन । त्रिनिघ्न करा विंशतिः खे सवे स्वम्भदैर्ध्यस्य मानं वद त्वम् ॥ ६० ॥ इति भागसंवर्गजाति ॥ अथोनाधिकांशवर्गजानौ सूत्रम्- स्वांशकभक्तहरार्ध न्यूनयुगधिकोनितं च तद्वर्गात् । व्यूनाधिकवर्गाग्रान्मूलं स्वर्ण फलं पर्देऽशहृतम् || ६१ || हीनालाप उदाहरणम् । महिषीणामष्टांशो व्येको वर्गीकृतो वने रमते । पञ्चदशा द्रौ दृष्टास्तृणं चरन्त्यः कियन्त्यस्ताः || ६२ ।। अनेकपानां दशमी द्विवर्जितः स्वसङ्गण क्रीडति सल्लकीवने । चरन्ति षड्वर्गमिता गजा गिरौ कियन्त एतेऽत्र भवन्ति दन्तिनः || ६३ ।।

  • अधिकालाप उदाहग्णम् ।

जम्बू पशांशो द्विकयुक्तः स्वेनाभ्यस्त: केकिकुलम्य द्विकृतिघ्नाः । Moumits हीन. 55 Monits this as well as the following stanza.