पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकव्यवहारः. अथ द्विरग्रशेषमूलजानौ सूत्रम्- मूलं दृश्यं च भजेदंशकपरिहाणरूपघातेन । पूर्वाग्रमग्रराशौ क्षिपेदतश्शेषमूलविधिः ॥ ४७ ॥ अत्रोद्देशकः । मधुकर एको दृष्टः रखे पद्मे शेषपञ्चमचतुर्थौ । शेषत्र्यंशो मूलं हा वाम्रे ते कियन्तः स्युः ॥ ४८ ॥ सिंहाचत्वारोऽद्रौ प्रतिशेषषडंशकादिमार्थान्ताः । मूले चत्वारोऽपि च विपिने दृष्टाः कियन्तस्ते ॥ ४९ ॥ तरुणहरिणीयुग्मं दृष्टं द्विसङ्गुणित वने कुचरनिकटे शेषाः पञ्चांशकादिदलान्तिमाः । विपुलकलमक्षेत्रे तासां पदं त्रिभिराहतं कमलसरसीतीरे तस्थुर्दशैव गणः कियान् ॥ ५० ॥ इति हिरग्रशेषमूलजातिः ॥ अथांशमूलजातौ सूत्रम् - भागगुणे मूलाग्रे न्यस्य पदप्राप्तदृश्य करणेन । यल्लब्धं भागहृतं धनं भवेद॑शमूलविधौ ॥ ५१ ॥ अन्यदपि सूत्रम् - दृश्यादेशकभक्ताच्चतुर्गुणान्मूलकृतियुतान्मूलम् । सपदं दलितं वर्गितमंशाभ्यस्तं भवेत् सारम् ॥ ५२ ।। 1 Breads द्वौ चाम्रे. 53