पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कलासवर्णव्यवहारः. कोऽप्यंशस्वार्धषड्भागपञ्चमाष्टमसप्तमैः । विहीनो 'जायते षष्ठस्स कोंडशो गणितार्थवित् ॥ १३४ ॥ शेषेष्टस्थानाव्यक्तभागानयनसूत्रम्- लब्धात्कल्पितभागास्स वर्णितैर्व्यक्तराशिंभिर्भक्ताः । रूपात्ष्टथगंपनीतास्त्वेष्टपदेष्वविदितांशास्स्युः ॥ १३५ ॥ इति भागापवाहजातिः । भागानुबन्धभागापवाहजात्योस्सर्वाव्यक्तभागानयनसूत्रम्- त्यक्त्वैकं स्वेष्टांशान् प्रकल्पयेदविदितेषु सर्वेषु । एतैस्तं पुनरंशं प्रागुक्तैरानयेत्सूत्रैः ॥ १३६ ॥ अत्रादेशकः । कश्चिदंशोऽशकैः कैश्चित्पञ्चभिस्वैर्युतो दलम् । वियुक्तो वा भवेत्पादस्तानंशान् कथय प्रिय || १३७ ॥ भागमातृजातौ सूत्रम्-- भागादिमजातीनां स्वस्वविधिर्भागमातृजानौ स्यात् । सा षड्विंशतिभेदा रूपं छेदो-च्छिदो राशेः ॥ १३८ ॥ अत्रोद्देशकः । त्र्यंशः पादोऽर्धार्थ पञ्चमषष्ठ स्त्रिपादह नमेकम् । पञ्चार्थहृतं रूपं सषष्ठमेकं सपञ्चमं रूपम् ॥ १३९ ॥ स्वीयतृतीययुग्दलमतो निजषष्ठयुतो द्विसप्तमो हीननवांशमेकमपनीतदशांशकरूपमष्टमः । P, Kand B तद्युति: for जायते. 45