पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44 गणितसारसङ्ग्रहः. प्रिय विशोध्य चतुर्गुणषट्टुतः कथय शेषधनप्रमिति द्रुतम् ॥ १२८ ॥ भागभागापवाह उद्देशकः । द्विगुणित पञ्चमनवमत्र्यंशाष्टांशद्विसप्तमान् क्रमशः । स्वषडंशपादचरणत्र्यंशाष्टमवर्जितान् समस्य वद ॥ १२९ ॥ षट्सप्तांशस्स्वषष्ठाष्टमनवमदशांशैर्वियुक्तः पणस्य- स्यात्पञ्चद्वादशांशस्स्वकचरणतृतीयांशपञ्चांशकोनः । स्वद्वित्र्यंशद्विपञ्चांशकदलवियुतः पञ्चषड्भागराशि- द्वित्र्यंशोऽन्यस्स्वपञ्चाष्टमपरिरहितस्तत्समासे फलं किम् ॥ १३० ।। अर्थ व्यष्टमभागपादनवमैरवीयर्वहीनं पुनः स्वैरष्टांशकसप्तमांशचरणैरूनं तृतीयांशकम् । अध्यर्धात्परिशोध्य सप्तममपि स्वाष्टांशषष्ठोनितं शेषं ब्रूहि परिश्रमोऽस्ति यदि ते भागापवाहे सखे ॥ १३१ ॥ अत्राग्राव्यक्तभागानयनसूत्रम्- लब्धात्कल्पितभागा रूपानीतापवाहफलभक्ताः । क्रमशः खण्डसमानास्ते प्रमाणन || १३२ ॥ अत्रोद्देशकः । कश्चित्स्व कैश्चरण पञ्चम भागषष्ठैः कोऽप्यंशको दलषडंशकपञ्चमांशैः । हीनोऽपरो द्विगुणपञ्चमपादषष्ठैः तत्संयुतिर्दल मिहाविदितांशकाः के ॥ १३३ ॥