पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 गणितसारसङ्ग्रहः शशिवसुरवरजलनिधिनवपदार्थभयनयसमूहमास्थाप्य । हिमकरविषनिधिगतिभिर्गुणित कि राशिपरिमाणम् ॥ ७ ॥ हिमगुपयोनिधिगतिशशिवह्निव्रतनिचयमत्र संस्थाप्य सैकाशीत्या त्वं मे गुणयित्वाचक्ष्व तत्सङ्ख्याम् ॥ ८ ॥ अग्निवसुरवरभयंन्द्रियशशलाञ्छनराशिमत्र संस्थाप्य । रन्धैर्गुणयित्वा में कथय सग्वे राशिपरिमाणम् ॥ ९ ॥ "नन्दातुशरचतुस्त्रि द्वन्द्वैकं स्थाप्य मत्र नवगुणितम् । आचार्यमहावीरैः कथितं नरपालकण्ठिकाभरणम् ।। १० ॥ षत्रिकं पञ्चषटुञ्च सप्त चादौ प्रतिष्ठितम् । त्रयस्त्रिंशत्सङ्गाणितं कण्ठाभरणमादि शत् ॥ ११ ॥ हुतवहगतिशशिमुनिभिर्वसुनयगतिचन्द्रमत्र संस्थाप्य । शैलेन तु गुणायत्वा कथवेदं रत्नकण्ठकाभरणम् ॥ १२ ॥ अनलाब्धिहिमगुमुनिशरदुरिताक्षिपयोधिसोममास्थाप्य । शैलेन तु गुणायित्वा कथय त्वं राजकण्ठिकाभरणम् ॥ १३ ॥ गिरिगुणदिविगिरिगुणदिविगिरिगुणनिकरं तथैव गुणगुणितम् । पुनरेवं गुणगुणितम् एकादिनवोत्तरं विद्धि ॥ १४ ॥ सप्त शून्यं यं इन्द्रं पश्चैकञ्च प्रतिष्ठितम् । त्रयःसप्तांतसङ्गुण्यं "कण्ठाभरणमादिशेत् ॥ १५ ॥ जलनिधिपयोधिशशधरनयनद्रव्याक्षिनिकरमास्थाप्य | गुणिते तु चतुप्षष्ट्या का सङ्ख्या गणितविब्रूहि ॥ १६॥

3M प्यम्.

3M अहो, 4M में शीघ्रम्. 6 Stanzas from 10 to 15 are found only in M and B. 9 B नयं. 10 All the Mss. give the metically erroneous reading कण्ठाभरणं विनिर्दिशेत् । 1 M and B किन्तस्य. • B विन्यस्य. 7 All the MES. read स्थाप्य तत्र. 8 B शे.