पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

148 गणितसारसङ्ग्रहः. समचतुरश्रा वापा नवहस्तघना नगस्य तले । अङ्गुलविस्ताराङ्गुलरवाताङ्गुलयुगलदीर्घजलधारा॥ ४१३॥ पतिताग्रे विच्छिन्ना वापीमुरवसंस्थितान्तरालजलैः । सम्पूर्ण स्वाद्वापी गिर्युत्सेधो जलप्रमाणं किम् ॥ ४२ ॥ इति खातव्यवहारे सूक्ष्मगणितं सम्पूर्णम् । चितिगणितम्. इतः परं खातव्यवहारे चितिगणितमुदाहरिष्याम: । अत्र परि- भाषा-- हस्तो दीर्घो व्यासस्तदर्धमङ्गुलचतुष्कमुत्सेधः । दृष्टस्तथेष्टकायास्ताभिः कर्माणि कार्याणि ॥ ४३३३ ॥ 11 इष्टक्षेत्रस्य खातफलानयने च तस्य खातफलस्य इष्टकानयने च सूत्रम्-- मुखफलमुदथेन गुणं तदिष्टकागणितभक्तलब्धं यत् । चितिगणितं तद्विद्यातदेव भवतीष्टकासङ्ख्या ॥ ४४३॥ अत्रोद्देशकः । वेदिः समचतुरश्रा साष्टभुजा हस्तनवकमुत्सेधः । घटिंता तदिष्टकाभिः कतीष्टकाः कथय गणितज्ञ ॥ ४५ ॥ अष्टकरसमत्रिकोणनवहस्तोत्सेधवेदिका रचिता । पूर्वेष्टकाभिरस्यां कतीष्टकाः कथय विगणय्य ॥ ४६३॥ समवृत्ताकृतिवेदिर्नवहस्सोर्ध्वा कराष्टकव्यासा | घटितेष्टकाभिरस्यां कतीष्टकाः कथय गणितज्ञ ॥ ४७२।। आयनचतुरश्रस्य त्वायाम: षष्टिरेव विस्तारः | पञ्चकृतिः षड् वेधस्तदिष्टकाचितिमिहाचक्ष्व || ४८३ ||