पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

142 गणितसारसङ्ग्रहः. वति । तन्मुखपुच्छविनिर्गतरेखेव तदनुईयस्थापि ज्याकतिर्भवति । तडनुईयस्य शरडयमेव वृत्तपरस्परसम्पातशरी ज्ञेयौ। समवृत्तद्वयसंयोगे तयोः सम्पातशरयोरानयनस्य सूत्रम्-- ग्रासोनव्यासाभ्यां ग्रासे प्रक्षेपकः प्रकर्तव्यः । वृत्ते च परस्परतः सम्पातशरौ विनिर्दिष्टौ ॥ २३१३ ॥ अत्रोद्देशकः । समवृत्तयोर्द्वयोर्हि द्वात्रिंशदशी तिहस्तविस्तृतयोः । ग्रासेऽष्टौ कौ बाणावन्योन्यभवौ समाचक्ष्व ॥ २३२३॥ इति पैशाचिकव्यवहारः समाप्तः ॥ इति सारसबहे गणितशास्त्रे महावीराचार्यस्य कृतौ क्षेत्रगणितं नाम षष्ठव्यवहारः समाप्तः ॥