क्षेत्रग णितव्यबहारः. विषमत्रिभुजक्षेत्रस्प कल्पनाप्रकारस्य सूत्रम्- जन्यभुजार्थं छित्वा केनापिच्छेदलब्धजं चाभ्याम् । कोठियुतिर्भूः कर्णौ भुजौ भुजा लम्बका विषमे || ११०३ ॥ अत्रोद्देशकः । हे द्वित्रिबीजकस्य क्षेत्रभुजार्थेन चान्यमुत्थाप्य | तस्माद्विषमत्रिभुजे भुजभूम्यवलम्बकं ब्रूहि ॥ १११३ ॥ इति जन्यव्यवहारः समाप्तः || पैशाचिकव्यवहारः. 125 इतः परं पैशाचिकव्यवहारमुद्दाहरिष्यामः । समचतुरश्रक्षेत्रे वा आयतचतुरश्रक्षेत्रे वा क्षेत्रफले रज्जुसङ्ख्यया समे सति, क्षेत्रफले बाहुसङ्ख्यथा समे नति, क्षेत्रफले कर्णसङ्ख्या समे सति, क्षेत्रफले रज्ज्वर्धसङ्ख्या समे सति, क्षेत्रफले बाहोस्तृतीयांश- सङ्ख्यया समे सति, क्षेत्रफले कर्णसङ्ख्यायाश्चतुर्थांशसङ्ख्या समे सति, द्विगुणितकर्णस्य त्रिगुणितबाहोश्च चतुर्गुणितकोटेश्च रजोस्संयो- गसङ्ख्यां द्विगुणीकृत्य तद्द्विगुणितसङ्ख्यया क्षेत्रफले समाने सति, इत्येव- मादीनां क्षेत्राणां कोटिभुजाकर्णक्षेत्रफलरज्जुषु इष्टराशिद्वयसाम्यस्य चेष्टराशिद्वयस्यान्योन् मिष्टगुणकारगुणितफलवत्क्षेत्रस्य भुजाकोटिसङ्- ख्यानयनस्य सूत्रम् स्वगुणेष्टेन विभक्तारखेष्टानां गणक गणितगुणितेन । गुणिता भुजा भुजाः स्युः समचतुरश्रादिजन्यानाम् ॥ ११२३ ॥ अत्रोद्देशकः । रज्जुर्गणितेन समा समचतुर श्रस्य का नु भुजसङ्ख्या | अपरस्य बाहुसदृशं गणितं तस्यापि मे कथय ॥ ११३३ ॥
पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१५९
दिखावट