पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः अत्रोद्देशकः । प्रथमस्य शक्रनीलाः षट् सप्त च मरकता द्वितीयस्य । वज्राण्यपरस्याष्टावेकैकार्थं प्रदाय समाः ॥ १६४ प्रथमस्य शक्रनीलाः षोडश दश मरकता द्वितीयस्य | वज्रास्तृतीयपुरुषस्याष्टौ हौ तत्र दवैव ॥ १६५ ॥ तेषूकैकोऽन्याभ्यां समधनतां यान्ति ते त्रयः पुरुषाः । तच्छकनीलमरकतवज्राणां किंविधा अर्घाः ॥ १६६ ।। क्रयविक्रयलाभैः मूलानयनसूत्रम्- अन्योऽन्यमूल्यगुणिते विक्रयभक्ते क्रयं यदुपलब्धम् । तेनैकोनेन हृतो लाभः पूर्वोद्धृतं मूल्यम् || १६७ || अत्रोद्देशकः । - 87 त्रिभिः क्रीणाति सप्तैव विक्रीणाति च पथभिः । नव प्रस्थान् वणिक् किं स्याहाभो द्वासप्ततिधनम् ॥ १६८ ॥ इति मिश्रक व्यवहारे सकलकुंडीकारः समाप्तः || सुवर्णकुठ्ठीकारः ॥ इतः परं सुवर्णगणितरूपकुटीकारं व्यास्यामः । समस्तेष्टव र्णैरेकीकरणेन सङ्करवर्णानयनसूत्रम्- कनकक्षयसंवर्गो मिश्रस्वर्णाहृतः क्षयो ज्ञेयः । परवर्णप्रविभक्तं सुवर्णगुणितं फलं हेनः ॥ १६९ ॥