पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः शेषे हृते सप्ततिभिस्त्रि मिश्र - र्नरैर्विशुद्धं कथयैकसङ्ख्याम् ॥ ११९ ॥ दृष्टास्तप्तत्रिंशत्कपित्थफलराशयो वने पथिकैः । सप्तदशापोह्य हृते व्येकाशीत्यांशकप्रमाणं किम् ॥ १२०३ ॥ दृष्ट्वाम्रराशिमपहाय च सप्त पश्चा- द्भक्तेऽष्टभिः पुनरपि प्रविहाय तस्मात् । त्रीणि त्रयोदशभिरुद्दलिते विशुद्धः पान्थैर्वने गणक मे कथयैकराशिम् ॥ १२१३ ॥ 81 द्वाभ्यां त्रिभिश्चतुर्भिः पञ्चभिरेकः कपित्थफलराशिः । भक्तो रूपाग्रस्तत्प्रमाणमाचक्ष्व गणितज्ञ ॥ १२२३ ॥ द्वाभ्यामेकस्त्रिभि च चतुर्भिर्भाजिते त्रयः । चत्वारि पञ्चमिश्शेषः को राशिर्वद मे प्रिय ॥ १२३३ ॥ द्वाभ्यामेकस्त्रिभिश्शुद्धश्चतुभिर्भाजिते त्रयः । चत्वारि पञ्चमिश्शेषः को राशिर्वाद मे प्रिय || १२४३ ॥ द्वाभ्यां निरत्र एकाग्रस्त्रिभिर्नाग्रो विभाजितः । चतुर्भिः पञ्चभिर्भक्को रूपाम्रो राशिरेष कः || १२५३ ॥ द्वाभ्यामेक स्त्रिभिश्शुद्धश्चतुर्भिर्भाजिते त्रयः । निरग्रः पञ्चभिर्भक्तः को राशिः कथयाधुना ॥ १२६३ ॥ दृष्टा जम्बूफलानां पथि पथिकजनै राशयस्तत्र राशी हौ तौ नवानां त्रय इति पुनरेकादशानां विभक्ताः । पञ्चाग्रास्ते यतीनां चतुरधिकतराः पञ्च ते सप्तकानां कुट्टीकारार्थविन्मे कथय गणक सञ्चिन्त्य राशिप्रमाणम् ।। १२७ ॥