पृष्ठम्:Ganita Sara Sangraha - Sanskrit.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 76 किं तद्वृद्धिः का स्यात् कालस्तदृणस्य मौक्षिको भवति । ७३ । केनापि संप्रयुक्ताशीतिः पचकशतप्रयोगेण || अष्टाद्यष्टोत्तरतस्तदशीत्यष्टांशगच्छेन । मूलधनं दत्वाष्टाद्यष्टोत्तरतो धनस्य मासात् ॥ ७५ ॥ बृद्धि प्रादान्मूलं वृद्धिश्च विमुक्तिकालश्च । एषां परिमाणं किं विगणय्य सरखे ममाचक्ष्व ॥ ७६ ॥ एकीकरणसूत्रम्-- वृद्धिसमास विभजेन्म[सफलैक्येन लञ्चमिष्टः कालः । कालप्रमाणगुणितस्तदिष्टकालेन सम्भक्तः ॥ बृद्धिसमासेन हतो मूलसमासेन भाजितो बृद्धिः । ७७३ । अत्रोद्देशकः । युक्ता चतुश्शतीह डिकत्रिक पञ्चकचतुषुशतेन । मासाः पञ्च चतुर्द्दित्रयः प्रयोगैककालः कः ॥ ७८३ ॥ इति मिश्रकव्यवहारे वृद्धिविधीनं समाप्तम् || प्रक्षेपककुटीकारः ॥ इतः परं मिश्रकव्यवहारे प्रक्षेपक कुट्टी कारगणितं व्याख्या- स्थामः । प्रक्षेपककरणसिवर्ग विच्छेदनांशयुतिहृतमिश्रः । प्रक्षेपकगुणकारः कुढीकारो बुधैस्तमुद्दिष्टम् ।। ७९ ॥ अत्रोद्देशकः । द्वित्रिचतुष्षडुभागैर्विभाज्यते द्विगुणषष्टिरिह हेनाम् । भृत्येभ्यो हि चतुर्भ्यो गणकाचक्ष्वाशु मे भागान् || ८०३ ॥ 8-A