पृष्ठम्:EkagniKandam.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रेष्याः॑ । तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥

हरिः ॐम्। प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒क्षणि॑ व॒रे-


तदुच्यते । यद्वा - यत् अपिधानकाले कम्पते जगति लोके यच्च चेष्टति चेष्टते, तस्य नाम्नो नमनशीलस्य भागोऽयं तस्मै नाम्ने स्वाहा । पृथिव्यादयः प्रसिद्धाः । यथा देवेभ्यस्स्वाहाकारः, एवं पितृभ्यः स्वधाकारः । नमो रुद्राय पशुपतये । पशवो द्विपादश्चतुष्पादश्च, तेषां पत्ये । ये भूताः प्रचरन्ति । यानि भूतानि प्रचरन्ति इतस्ततः चरन्ति, दिवा नक्तं बलिमिच्छन्तः, वितुदस्य कुबेरपुत्रस्य । वितुदये कौबेराय इति मन्त्रान्तरे दर्शनात् । तस्य कुबेरपुत्रस्य, ये प्रेष्याः, तेभ्यः बलिं पुष्टिकामः हरामि । स पुष्टिपतिः वितुदः मयि पुष्टिं दधातु । अनेन नक्तमेव बलेः नक्तमेवोत्तमेन वैहायसम् इति दर्शनात्, नक्तं बलिमिच्छन्तः इति लिङ्गाच्च । अन्ये तु- नक्तमुत्तमेनैवेति भिन्नक्रम- मेवकारस्याचक्षते, तेषां बल्यन्तराणां रात्रौ निवृत्तिः । केचिद्दिवा बलिमिच्छन्तः, इत्यूहेन दिवा बलिं हरन्ति । दिवाचारिभ्य इति दिवा, नक्तञ्चारिभ्य इति नक्तम् - इत्याश्वलायने दर्शनात् ॥

अथ विवाहमन्त्राः - प्रसुग्मन्ता वरान् प्रहिताननुमन्त्रयते - प्रसुग्मन्ता इति ॥ प्रसुग्मन्ता - प्रकर्षेण सुष्ठु गन्तारः, धियसा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६&oldid=214080" इत्यस्माद् प्रतिप्राप्तम्