पृष्ठम्:EkagniKandam.pdf/१७

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
5
प्रथमप्रपाठके प्रथमः खण्डः

भि॑र्व॒राꣳ अ॒भि षु॒ प्रसी॑दत । अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यत्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति । अ॒नृ॒क्ष॒रा ऋ॒जव॑स्सन्तु॒ पन्था॒ येभि॒स्सखा॑यो॒ यन्ति॑ नो वरे॒यम् । सम॑र्य॒मा सं भगो॑ नो निनीया॒त्सञ्


नस्य ध्यायमानस्य, सक्षणि समाने क्षणे, ध्यानानन्तरमेव, वरेभिः वरैः श्रेष्ठैः पथिभिः, वरान् वरयितव्यान् कन्यायाः पित्रादीन्, अभि प्रति, सु प्रसीदत सुष्ठु प्रकर्षेण गच्छत, हे सुहृदः । इन्द्रोप्यत्र सहाय इत्याह- अस्माकमुभयम् । अस्मदो द्वयोश्च इति द्वयोर्बहुवचनम् । मम च कन्यायाश्च आवयोर्योगं युगळं इन्द्रो जुजोषति सेवते । तस्याप्येतदनुमतमित्यर्थः । कस्मात्? यत् यस्मात्कारणात्, सौम्यस्यान्धसः अन्नस्य । द्वितीयार्थे षष्ठी । सोमरसात्मकमन्नं आवाभ्यां दास्यमानं बुबोधति, एतौ सङ्गतौ मां यक्ष्येते इति बुध्यते ॥


 अनृक्षरा ऋजव अनृक्षरा इति ॥ कन्यागृहं गच्छताम्, एतेषां पन्थाः पन्थानः, अनृक्षराः कंटकशर्करादिरहिताः, ऋजवश्च सन्तु, येभिः यैः पथिभिः, नः अस्माकं, सखायः सुहृदः, इमे यन्ति गच्छन्ति, वरेयं वरणीयं कन्यायाः पित्रादिकं प्रति । नः आवां च, अर्यमा भगश्च, सम् निनीयात् सन्नयतु सङ्गमयतु । आवयोश्च जास्पत्यं जायापतिभावः सम्यक् सुयममस्तु सुसम्बद्धमस्तु, हे देवाः ॥ स्वयं दृष्ट्वा तृतीयां जपेत् - अभ्रातृघ्नीमिति । हे वरुण । त्वं अस्यै वध्वै, या अभ्रातृघ्नी लक्ष्मीः, तां लक्ष्म्यम् । वा छन्दसि इति पूर्वसवर्णाभावे यणादेशः । लक्ष्मीं सुव देहि । हे बृहस्पते । त्वं च या अपतिघ्नी लक्ष्मीः, तां लक्ष्म्यं सुव देहि । हे इन्द्र । त्वं या अपुत्रघ्नी लक्ष्मीः तां सुव देहि । हे सवितः । त्वं च सर्वात्मिकां लक्ष्म्यं सुव देहि । यथेयं भ्रात्रादिमरणं न प्राप्नोति तथा कुरुतेत्यर्थः ॥


*यसस्य.

 'ओकारश्छान्दस इत्यधिकः पाठः तदा सम्यस्येति मन्त्रपाठस्स्यात्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१७&oldid=214081" इत्यस्माद् प्रतिप्राप्तम्