पृष्ठम्:Dvisandhanam kavya.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ काव्यमाला। प्राप्य मण्डलस्थिति परिवेषं मनचक्रम् आपतन् कर किरणं हस्तम् आधुनानः कम्पयन् सन्नश्वसीदुललास ॥ स दिदंक्षाममायासीत्पक्षिराजो रुरुत्सया । सदिदं क्षाममायासीचिन्तयेवाहिमण्डलम् ॥ १६ ॥ (पादयमकम्) स दीति ॥ स पक्षिराजो गरुडो रुरुत्सया रोद्भुमिच्छया अमा युगपत् दिदक्षा दंष्टु- मिच्छाम् अयासीत् प्राप्तवान् । तथा च इदमहिमण्डलं सर्पवृन्द क्षामं क्षीणं सत् चि- न्तया इव आयासीत् खेदमनुभवति स्म । पलायांचक्रिरे नागा नैव नागान्महानृपाः। निस्तुदन्नपि चञ्च्चा तान्गरुत्मान्पर्णवायुना ॥ १७ ॥ वनेऽपूरि रिपूनेव नेयताक्षक्षतायने । पूतानेककनेता पू रिक्षकर्यर्यकक्षरि ॥ ५८ ॥ (युग्मम्) (गतप्रत्यागतपादः) पलायामित्यादि ॥ नागाः सर्पाः पलायांचक्रिरे, महानृपा नरेन्द्राः नैव पलायांचक्रिरे। पूतानेककनेता पूताः पवित्रीकृता अनेके येन तादृशः कस्य विष्णोर्नेता वाहकः, पवि- त्रीकुर्वद्विष्णुवाहकः पू: पवमानःप्लवमानो गरुत्मान् गरुडोऽपि तान् नागान्, चश्चा निस्तुदन् सन्, नेयताक्षक्षतायने नेयानां प्राप्ये गम्ये पदार्थे च रथे नेयः प्रवर्तते' इत्युक्ते रथानां तेषु, 'विस्तारे जनके चक्रे तशब्दोऽप्यभिधीयते' इत्युक्तेः। चक्रेषु अझैश्चक्राधार- काठैः क्षतानि खण्डितानि अयनानि मार्गा यस्मिन् तादृशि, रिक्षकर्यर्यकक्षर रिक्षक- रिणो हिंस्रगजा अर्यकक्षरो अर्यस्य 'स्वामिनि नीरदे सये प्रधानेऽपि च वस्तुनि । देवद- न्तिनि वै दक्षैरर्यशब्दोऽभिधीयते ॥ इत्युक्तेः ऐरावतगजस्य कक्षाम् ऋच्छन्ति गच्छन्ति। विच् । ऐरावतस्पर्धाबद्धा यत्र तादृशि, वने, रिपून् एव पर्णवायुना पक्षवातेन अनि आप्यायते स्म। इति मोघं बभूवारित्रियुद्धमयुक्त यत् । प्रागनालोचितस्यास्सिन्मन्त्रस्यावसरः कुतः ॥ ५९॥ इतीति ॥ अरियन मन्त्रयुद्धम् अयुत तदित्येवंप्रकारेण मोघं निष्फलं बभूव । युक्त- मैतत् । यतः-अस्मिञ्शत्रौ प्रागनालोचितस्य प्रमाणनयनिक्षेपैरविचारितस्य, मन्त्रस्य अवसरः प्रस्तावः कुतः कस्मात् स्यात् ॥ अविस्मरन्पराधातमित्थं कस्यचिदमरत् । यदर्थ यतते शूरस्तदर्थ विस्मरेत्कथम् ॥१०॥ Digitized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१८&oldid=234720" इत्यस्माद् प्रतिप्राप्तम्