पृष्ठम्:Dvisandhanam kavya.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । २०९ अवीति ॥ इत्थमेवेप्रकारेण पराघातं शत्रुवधम् अविस्मरन् असावरिः कस्यचित् । 'अधीगर्य-' इति कर्मणि षष्ठी । अस्मरत् । युक्तमेतत् । यतः शूरो यदर्थे यतते तदर्थे कथं विस्मरेत् ॥ ननूधसि पयोऽस्तीति कुण्डोनीनां फलं भवेत् । समेत्य भुक्तमात्मीयं तत्संभुक्तं मया धनम् ॥ ११ ॥ नन्विति ॥ ननु उधसि पयो दुग्धम् अस्ति इत्येव कुण्डोधीनां फलं भवेत् । अतो यदात्मीयं स्वकीयं धनं मया प्रतिविष्णुना समेत्य मिलित्वा भुक्तं तदेव संभुक्तं स. म्यग् भुक्तम् ॥ रणे प्राणाः सदातिथ्यं प्रीणितास्तथ्यमर्थिनः । निःशेषास्तस्य ते मेऽस्य भुक्तशेषा हि कीर्तयः ॥ १२॥ रण इति ॥ रणे प्राणाः आतिथ्यं मजन्ते । तथा निःशेषाः समस्ता अर्थिनो याचकाः तथ्यं सत्यं प्रीणिताः । युक्तमेतत् । हि यतः-तस्य ते, अस्य मे, कीर्तयो भुक्तशेषा भु- क्तोद्धृता भवेयुः ॥ भुज्यतेऽवारपारीणं मयैकेनानितं यशः । सोऽयं लोभो गुणो वास्तु सहभोगो न सह्यते ॥ ६३ ॥. भुज्यते इति ॥ एकेन एकाकिना मया अवारपारीणं पारावारगामि यशोऽजितं सद्भु. ज्यते । सोऽयं लोभः कार्पण्यं गुणो वास्तु । यतः-सहभागः शत्रुणा सह मिलित्वा भोगो न संयते सोढुं शक्यते ।। अरावणञ्जगद्विश्वं करवै तदविष्णु वा । नयोक्तव्याजरासंध वागितोऽन्या न वर्तते ॥ १४ ॥ अरावेति ॥ तद् विश्वं समस्तं जगदरावण रावणरहितम्, अविष्णु लक्ष्मणरहित वा करवै । इतोऽस्याः प्रतिझाया अन्या नयोक्तव्या नयेन उक्तं व्यं संवरणं यया सा नी- तिप्रतिपादितसंवरणा अजरा नूतना वाम् असंधम् अप्रतिशं यथा स्यात्तथा, नव- तेते ॥ भारतीये-भरौ शत्रौ, अणन् गर्जन अहमविष्णु नारायणरहितम् अजरासंधं जरासंधरहितं या॥ इति चक्रस्य तत्कालमध्यगादमियोगतः । अकालचक्र लोकोऽयमध्यगादभियो गतः ॥१५॥ (समपादयमकम्) इतीति ॥ तत्तस्मात्कारणादित्युक्तप्रकारेण अभियोगत उद्यमात, चक्रस्य काल- मवसरम् अध्यगात् स्मृतवान् । तथा अभियोऽभयाद गतो निर्यातोऽयं लोकोऽकाल- चक्रम्, अध्यगात् सातवान् ॥ Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१९&oldid=234753" इत्यस्माद् प्रतिप्राप्तम्