पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९
रुक्मिणीहरण ईहामृगः ।



(नेपय्ये )

 अयि पौराः ! 'पौरकन्यकाः ! समादिशति वो महाराजः मज्जीभघत मङ्गलकौतुकेपु । प्रविशन्ति नगरं गरीयांसो राजानः ।

 मकरन्दिका-(सौत्सुक्यम् ) `भअवदि सुवुद्धि ! इह तए इमिणा कन्हस्स आलेक्खेण पाणिग्गहणं कारिदं । तत्थ उण भट्टिदारिआए आलेक्खेण दुवेवि एदे एक्कठाणगदे पेकिखदुं मे कोऊहल्लं । ता एत्थ चित्तवडे कन्हसमीवम्मि भट्टिदारिअं आलिहिस[१]सं ।

 सुवुद्धिः-(विहस्य) कस्तव कुतृहलिनस्तरलत्वं वारयति । मनोरथो ऽयंपुनः साक्षात्कारेणापि प्रत्यासन्न एव ।

(मकरन्दिका नाटयेनालिख्य चित्रपट करे करोति)

( नेपथ्ये कलकल )

 सुव०-'भअवदि ! पञ्चासन्ना पुरप्पवेससम्मुहा महीणाहा, जं एस निअडदो दुंदुभिझुणी सुणोअदि[२]

 मकर०--( सौत्सुक्यम् ) भट्टिदारिए ! ता एध उअरितलं सौहसिहरं आरुहिअ गवक्खन्तरे पेच्छामो [३] । )

 रुक्मिणी--( स्वगतं सहर्पम्) साहु मअरंदिए ! साहु । ( प्रकाशं सावहित्यम ) यहा भअवदी भणदि[४]

 सुबुद्धिः-क्रियतामिदम् । (इत्युत्थाय सर्वास्तथा कुर्वन्ति )

 मकर०--(गवाक्षजालान्तरेण विलोक्य)पेच्छध पेच्छध पविसन्ति णरवइणो[५]

( सर्वा विलोकयन्ति )

 मकर०-( विलोक्य सहर्षाश्चर्यम्)


  1. भगवति सुचुद्धि । इह त्वया अमुना कृष्णस्यालेख्येन पाणिमह्नणं कारितम् तन पुनर्भर्तृदारिकाया आलेरयेन । द्वावपि एतौ एकस्थानगते प्रेक्षितुं मे कुतूहलम् । तदन चित्रपटे कृण्णसमीपे भतृदारिकामालिखिप्ये ।
  2. भगवति ! प्रत्यासन्ना पुरप्रवेशसम्मुरसा महीनाथा', यदेप निफटतो दुन्दुभिध्वनि श्रूयते ।
  3. भतृदारिके ! तद्त्र उपरितलं सौधशिखरमारुह्य गवाक्षान्तरे प्रेक्षावहे ।
  4. साधु मकरन्दिके ! साधु । यधा भगवती भणति ।
  5. प्रेक्षध्वं प्रेक्षध्वं प्रविशन्ति नरपतयः ।