पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
वत्सराजप्रणीतरूपकसङ्गहे


अह हिअअ ! पसिअ विरमसु दुल्लहपेम्मेण किं नु विनडेसि ।
चणहरिणीए हसिज्जइ मअंकहरिणम्मि अणुरा[१]ओ ॥ ५ ॥

 सुचुद्धिः-(ससम्भ्रममुत्थाय रुक्मिण्याश्चिबुकमुन्नमय्य ) वत्से रुक्मिणि ! किमपयसस्ते गुरुजनो यदित्थमुत्ताम्यसि ।

 रुक्मिणी-(स्वगतं सवैलक्ष्यम्)कथमिहैवासीद्भगवती!। ( प्रकाशम्)भअवदि ! तुमं वन्चिअ गुरुअणो य्येव मे दुज्वणो[२]

 सुबुद्धिः-( सोत्साहम्) भवतु यः कोपि यथा तथा । गृहीतैघ च तेन शार्ङ्गपाणिना पाणिना । वत्से सुवत्सले ! किन्न निवेदयसि वत्सायाः ।

 सुवत्सला-(पुरतो भूत्वा) वच्छे रुप्पिणि ! किं कआवि भअवदी अलिआलाविणी । माणिदं सुमुहुत्तं । गहिदासि आलेक्खगदा हरिणा पाणिना । संपइ णिअपाणिगहिदोचिदं हरी णिव्वाहइस्सदि[३]

 रुक्मिणी-(स्वगतं सहर्पम्) हिअअ ! समस्सस समस्सस । संमुहं व तुह दीसद्वि द्विट्टवं[४]

'सुबुद्धिः-( सोहासम् ) किं न प्रत्येति वत्सा, तदनेनैवालेख्यगतेन गृहीतासि पाणिना शौरिणा । ( इति कृष्णचित्रपटकेन यार्णि ग्राहयति )

(नेपथेये दुन्दुभिरुदञ्चति )

 सुवत्सलामकरन्दिके-(सद्दर्पे) अहो ! सुणिमित्तं सुणिमित्तम्[५]

 सुबुद्धिः-न खलुसुनिमित्तमात्रम्। इदानीं स एवानेन सौधतलवर्त्मना पुरप्रवेश्शं गोविन्दः करिप्यति । तेऽपि शिशुपालादयः । दृष्टोऽस्माभिरभ्युत्थानायोपसर्पन्महाराजो भीष्मको महाकुमाररुविक्मप्रमुखान्वितः।


  1. अयि हृदय ! प्रसीद विरमस्व सुदुर्लभप्रेम्णा किं नु विगुष्यसि ।
    वनहरिण्या हस्यते मृगाङ्कहरिणेऽनुरागः ॥ ५ ॥
  2. भगवति ! त्वां वर्जयित्वा गुरुजन एव मे दुर्जनः ।
  3. बत्से रुक्मिणि ! किं कदापि भगवती अलीकालापिनी । मानितं सुमुहूर्त्तम् । गृहीतासि आलेरयगता हरिणा पाणिना । सम्प्रति निमपाणिगृहीतोचितं हरिर्निर्वीहयिष्यति ।
  4. हदय ! समाश्वसिहि समाक्ष्वसिहि ! सम्मुरसमिव वव दृश्यते दैवम् ।
  5. अहो मुनिमित्तं सुनिमित्तम् ।