पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५
कंर्पूरचरितभाणः


 तत्कथय कथमिदं संवृत्तम् । (आकर्णनाभिनयं कृत्वा) एवमात्थ? । म[१]ए खु पढमं भणिदा सृणिहुदं सा कलावदो ! एसा खु तुह दुहिदा जूदअरकप्पूरम्मि विलग्गहिअआ तुह सव्वस्सं उक्खणिअ तस्स समप्पिस्सदि । तो तए अप्पमत्ताए भोदव्वं । पुणो अ मए विलासवदीो एवं गहिदत्था कया । जहा केिर एसा तुह अन्तिआ कप्पूरअपक्खवादकारणेण विरत्ता तुह सव्वस्सं उक्खणिअ कहिंपि गमिस्सदि । ता अज्ज रअणीए णिकिखदव्वा तए एसा । तदो जामिणीए पढमजामम्मि कलावदी दविणट्टाणमुक्खणन्ती विलासवदीए सकेसग्गहं कलहाविदा णिव्वासिदा अ ।

( सहर्पमाकाशे )

 वपस्य चन्दनक ! पश्य पश्य `भगवतो माणिभद्रस्य प्रसादमहिमानम् । द्वित्रैरेव दिनैः कृतकृत्याः स्मः ।

( पृनराकाशे आकर्णनामिनयं कृत्वा साश्चर्यम्)

 एवमाकाशवाणी क्ष्रूयते । वत्स कर्पूरक ! न तथा त्वद्भक्त्या परितुष्टोऽस्मि यंथा तद्दिने रोपगर्भैरुपालम्भैः । तर्तिक ते भूयः प्रियमुपकरोमि । (साश्चर्यहर्पमाकाशे प्रणम्य ) भगवन्प्रसीद प्रसीद क्षमस्व दुर्विनयम् । एप पुनः पुनः प्रणतोऽस्मि ।

विपत्पयोघौ निहिता विपक्षाः पूर्णाः प्रकामं कनकैर्निकायाः ।
शान्तोऽन्तरायः प्रमदासुखनामभ्यर्थये तत्किमर्ह कृनार्थः ॥ ३१ ॥

तथापीदमस्तु ----
लोकः सदा नन्दतु पूर्णकामश्चन्द्रार्द्धचूडे निविडामुरागः ।
वर्पन्तु कामं सलिलं पयोदाः कृपार्द्रचित्ताः कनकं नरेन्द्राः ॥ ३२ ॥

सपाप्तोऽयं कर्पूरचरिताभिधानो भाणः ।

कृतिरियं महाकवेर्वत्सराजस्य ।



  1. मया ग्पलु प्रयमं भणिना मुनि॒मृतं कलावती । एपा ग्पलु तव दुहिता घूतकरकर्पूग्येः विलप्रहृदया तव सर्वस्वमुत्रसाय तस्य समर्पयिध्यति । त्वया अप्रमत्तेन भवितव्यम् ! पुनश्च मया विस्लासवनी एवं गृहीतार्या कृना । यया कि एपा तच माता कर्पूरकपक्षपानकारणेण विरक्त्ता तव सर्वम्वमुत्ग्वाय कुत्रापि गमिष्यति । तदद्य रजन्यां निरीश्निनत्र्या त्वया एषा । नतो यामिन्याः प्रथमयामे कलावती द्रविग्यरथानमुल्म्पनन्ती विलासवत्वा सफेशग्राहं क;अहयिता निर्पामिना च ।