पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
वत्सराजणीतरुपकसङ्गहे

 कनकभिनीद्दग्विक्ष्वविक्ष्वासघात-
  प्रणयिगहनमायाजालजातात्मलाभम् ॥ [१]२७ ॥

अथ स चतुरकः
 निस्थामकरणग्रामः प्रकामं सीधुसेवया ।
 निद्रया सान्द्रया ग्रस्तः सन्निपातादिवापतत् ॥ २८ ॥

 अहं च चपकचुम्बनमात्रपरो मदिरयाऽनभिभूतस्तदुत्सङ्गतो,हारमादाय निप्क्रान्तोऽस्मि | ( नेपथ्याभिमुखं कलकलाकर्णनाभिनयं कृत्वा पुरोऽवलोक्य ससम्)

( आक्रोशे )

विरोधक । किमुद्धान्तो धावासेि? ।
आपृत्प्रशान्तिपु परा तव वुद्धिसिद्धि-
 र्न त्रासलेशमपि तत्त्ययेि सम्प्रतीमः ।
कापि प्रमादपरवानसि चेत्तदेप
 तघ्रास्ति मे रिपुकुलान्तकरः कृपाणः ॥ २९ ॥

 ( आकर्णनाभिनयं कृत्वा ) किमात्थ ? ।

 णत्थि मे किम्पि भअं णत्थि । अहं खु चंदणअं वद्धाविदुं पहाविदोम्हि । एसो खु एदस्स पटिघक्खो हारदत्तो रा अपुरिसेर्हि णिागिहीदो णिव्वासीअदि । एअस्स किल भिच्चेण चदुरएण अलिअभकणअदाणेण सोडिओ वंचिदो । अमवरेण अ णिउणाएण हाराहिण्णाणदाणवंचिदाए चदसेयााए सव्वस्सं परिमुसिअं । तुज्झवि सा पडिवक्ग्वभूदा कुट्टणो कलावदी दुहिदाए विलासवदीए गणिआगणस्स पुरदो कअसवृहणिव्वन्धं आजम्मं परिचत्ता ।

 ( सहर्पम् ) वयस्य विरोधक ! दीर्घ जीव दीर्घं जीव ।

पीयूपसिन्धुरजनिप्ट विनष्टनक्रः
 प्रोच्छिन्नदुर्जनकथाऽजनि काव्यगोष्ठी ।
जाताद्य चन्दनलता भुजगीवियुक्ता
 यत्कुद्दनीविरहिता गणिका वभूव ॥ ३० ॥


  1. नास्ति किमयेि भयं नास्ति | अहं खलु चन्दन्कं वर्वापयिनुं प्रधावितोऽस्मि । एप खलु एतस्य प्रतिपक्षो हारदत्तो राजपुरुपैर्निगृहीतो निर्वास्यते । एतस्य क्लि भृत्येन चतुरकेण अलीकफनयकदानेन शौण्डिको वश्चितः । अपरेण च निपुणकेन हाराभिज्ञानदानवञ्चिताया चन्द्रसेनायाः सर्वस्वं
    परिमुपितम् । तवापि सा प्रतिपश्क्षभूता कुट्टिनी फलावती दुद्देित्रा विलासनत्या गणिकागणस्य पुरतः कृतशपथनिर्वन्थमाजन्म परित्यक्ता ।