पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
समुद्रमथनाभिवानः समवकारः


दिविपदः पीयूपं निपीयामरा भवन्ति । तदमृताविर्भावसमये मया अवहितेन भाव्यम् । तदेवं तावत् । (प्रकाशम्) सखे कुजम्भ ! एह्येहि ।

 कुजम्भ०-(प्रविश्य ) किमादिशयते ?

 ( वलिः । कर्णे एवमेव )

 कृजम्भः'-( सहर्पोल्लासम्) सिद्धमेतत् ।

 इन्द्रः--अगवन्नारायण ! त्वत्परायणोऽयं व्यवसायः । किमिदानीमेव भन्दायसे ? ।

 वासु०--( मन्दरमावर्त्तयन्स्वगतं सोत्कण्ठम्)

यावद्वभूव हरिणार्भकलोचनाया-
 रत्रासप्रगल्भपरिरम्भसुखोपभोगः ।
वाह्वोर्यलं मतिवलं व्यपनीय काम-
 स्तावद्विडम्वयति मां करवै किमत्र ॥ ६१ ॥

 ( प्रकाशं सावहित्थम्) अयि गीर्वाणाः ! अयि दानवाः ! सर्वप्राणेन परिभ्रमयत पुनर्मन्थाचलम् ।

( सर्वे तथा कुर्वन्ति )

 धनदः--पश्यत पश्यत कुम्भानामिव_मुखान्युत्प्रेङ्खन्ति ।

 इन्द्रः-( ससम्भ्रमम् ) आस्तामास्तां तावन्मन्दरावर्त्तनम् । कथं समग्रा एव कुम्भाः समुत्तरन्ति । ( सवितर्फम्) किममी स्फुदितत्वाद्विविक्त्ताः कथमन्यथोत्तानमुग्खास्तरन्ति ।

 धनदः-( सवितर्कम्) विचिन्रा किमियमुत्तानमुखी कौम्भो नौरद्भुतनिधौ पयोधी ! ।

 वासु०-(निरूष्य सहपैम्)

कौम्भी ध्रवं नौरियमभ्युपैति
 विनिर्मिता किन्नु निधानकुम्भैः ।
यस्याः प्रसिद्धा भुवनत्र्नयेऽपि
 दारिघवार्द्धेस्तरणे प्रसूक्त्ति ॥ ६२ ॥