पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
हास्यचूडामणिः प्रहसनम्


 मदनसुन्दरी-अत्ते! किं नेदं[१] ? ।

( कपटफैलिः कण्ठं गृहीत्वा रोदिति )

 कलाकरण्डकः-(विलोक्य ससम्भ्रममुपसृत्य) भगवन् ज्ञानराशे ! किमेतत् ? ।

 ज्ञान०-( स्वरेण ज्ञात्वा ) वत्स कलाकरण्डक ! दुदैवेहतोऽहं, किं कथयामि।

 कोकिलपारावतौ- (सक्रोघम् ) णाह कलाकरंखअ ! । एदं माआवंचिदसअलभुअणं संभावेसु णट्ठ[२]

 कलाकरण्डकः ( सकोघम्) आः पापौ ! अलमलं चापलेन । ( ज्ञानराशिं प्रति ) भगवन् ! कथय किमेतत् । सज्जोऽयं त्वत्प्रेष्यो जनः ।

 ज्ञान०-वत्स । तावदम्भः समानीय प्रक्षाल्यन्तां सर्वेपामक्षीणि ।

 कलाकरण्डकः---कुसुमिके ! मुद्गरक ! ननु प्रत्यासन्नैव दीर्घिका, तदानीयतां पानीयम् ।

 उभौ-जं सामी समादिसदि।(इति निप्कम्य पुनः प्रविश्य ) उवणीदंजलं [३]

 कलाकरण्डकः--प्रक्षाल्यन्तां सर्वेपामक्षीणि । ( इति तथा कुरुतः )

 ज्ञान०-(मुखं ग्रक्षाल्य उन्मील्य चक्षुपी ) वत्स कलाकरण्डक ! दिष्ट्या दृष्टोऽसि दिष्टया प्रशान्तमापदा ।

 कपट०--( सहर्पम्) दिट्टिआ दिट्टो मए तुह मुहससी । ( इति मदनमुन्दरीं चुम्पति ) ।

 कोकिलपारावतौ-(कलांकरण्डकं पदुयोर्गृहीत्वा ) दिष्ट्या जीवतोनौ[४] नातिथिर्जातोऽसि ।

 कलाकरण्डकः-वत्सौ ! प्रणम्यतां तावदयं जगद्गुरुर्भगवान् ।


  1. अम्व ! किन्विदम् ? ।
  2. नाय कलाक्ररण्टफ ! पनं मायानञ्चितमकलभुवनं संभावय नष्टम् ।
  3. यत्स्प्रामी समादिशति । उपनीतं जलम् |
  4. दिष्टया दृष्टो मया तप मुखशशी ।