पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
हास्यचूड़ामणिः प्रहसनम्


 मदन०-(सोत्कण्ठमुत्थाय ) पिअसहि ! एहि एहि आलिंगसु मं[१] । ( इति चेटी समालिङ्गति)

 शिष्यः-उमज्झाअ! डज्झड एस अन्हाणं तओ। पेच्छ पेच्छ एदाए धण्णत्तणं जा मअणसुंदरीए समालिंगिज्जदि[२]

 ज्ञान०-(स्वगतं सोत्कण्ठम् ) सम्यगाह कौण्डिन्यः। (प्रकाशं सक्रोधमिव) रेरे किं प्रलपसि । आः पाप! शापोदकेन निर्वापयामि त्वद्दुर्विनयपावकम् । (इति कमण्डलूदकमादातुमिच्छति)

 शिष्यः----किं अआरणं कमंडलुजलं पवाहेसि। किलम्मिहसि मज्झण्हतण्हाए । जाणेमि तुह पहावं[३]

 ज्ञान-मूर्ख ! कपटकेलिघनप्रल्यावृत्तिं वुद्धापि न प्रत्येपि।

 शिष्यः-कवडकेलीए चोरिदत्ति तए पढमंय्येव पच्चाइदोम्हि [४]

 मदन०-(सौत्सुम्यम् ) ता एहि तहिं य्येव गटुअ पडिवालेम्ह जूदअरं[५]

(इत्युत्याय चेटीं हस्ते गृहीत्वा परिक्रामति)

 शिष्यः--मुंच दाववाआकलहं । पेच्छ पेच्छ गच्छदि एसा [६]

 ज्ञान--(विलोक्य स्वगतं सोत्कण्ठं सानुतापम् ) कथमपक्रामत्येव!।

उन्मुच्य दूरमपयाति यथा यधेयं
 छायेव मन्मथतरोस्तरलापताक्षी।
अङ्गानि मे प्रसभमेप तथा तथैव
 क्रोडीफरोत्यहह ! दुर्विपहः प्रतापः ॥ ४ ॥


  1. प्रियससि! एहि एहि आलिङ्गमाम्।
  2. उपाध्याय ! दहातु एतदस्माकं तपः । प्रेक्षस्व प्रेक्षस्व एतसा धन्यत्वं यन्मदनसुन्दर्या समालिङ्गयते ।
  3. किमकारणं कमण्डलुजलं प्रवाहयसि ? । क्लमिष्यसि मध्याहतृपया, जानामि तव प्रभावम् ।
  4. कपटकेल्या चोरितमिति त्वया प्रथममेव प्रत्यायितोऽस्मि ।
  5. तदेहि तत्रैव गत्वा प्रतिपालयाम घूतकारम् ।
  6. मुञ्च तावद्वाचाकलहम् । प्रेक्षस्व प्रेझस्व गच्छति एपा।