पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
वत्सराजप्रणीतरूपकसङ्ग्रहे



 शिष्यः--उअज्झाअ ! तुमं व दुव्विसहतिव्वतेऒ दिणणाहो ! ता एहि एदं य्येव माहवीमुंडवं पविसम्ह । इहुय्येव झाणघारणादिअं भूविस्सदि[१]

 ज्ञान०-( स्वगतं सहर्षोत्कण्ठम् ) चिरं जीवतु मे वत्सः । कौण्डिन्येन हृद्गतमभिहितम् । ( प्रकाशम् ) यथा रोचते वत्साय | ( उभौ प्रवेशं नाटयतः) ।

 (स्यगतं सोत्फण्ठं विभाव्य ) अये इयं सा वेदिका मदनसुन्दरीपरिरम्भसम्भाविता । तदेतामधिशये तावत् । ( इति विग्रामं नाटयति )

 शिष्यः-इह जहिच्छं कुणदु उअज्झाओो झाणधारणादिअं[२]

 ज्ञान०-( सान्तस्तापः स्वगतम् ) कुतोमिमैतदिदानीम् । तथाहि----

समेघन्ते क्ष्वासाः क्क नु पवनसंरोधनविघे-
 र्वचस्तन्नामैव स्पृशति सततं क्कस्ति स जपः ।
तया ग्रस्तं चित्तं क्कचिदपि ययौ कैटभरिपु-
 र्ददौ दीक्षामन्यां मम कुसुमचापोऽद्य भगवान् ॥ ५ ॥

 प्रगल्भते च ममायं सर्वाङ्गीणः सन्तापस्तदेमामेव शीतलां वेदिकां विलुण्ठनैः सम्भावयामि ( इति तया करोति )

 शिष्यः-( ससम्भ्रममिव ) किं उण उअज्झाओ एवं पलोट्टदि[३]

 ज्ञान०-( ससंवरणम् ) वत्स ! कौण्डिन्य ! वाधन्ते ममाङ्गानि घोरेण ज्वरेण ।

 शिष्यः-( स्पर्शमभिनीय ) अहो दे दारुणो जरो । णं जाणसिय्येव जरविआरणमन्तं । ता कीस किलिम्मसि[४] ?

 ज्ञान०-( स्वगतं विमृश्य ) अये मदनसुन्दरीविरहज्वरातुरस्य तद्वशीकरणमन्त्रप्रयोग एव मे शरणम् । मुखरशिप्यराक्षसाघ्रातस्य क्क मे दूत्यअदेरभ्युपायस्तदेवं तावत् । ( प्रकाशम् ) वत्स कौण्डिन्य ! । सम्प॒गनुस्मारितोऽस्मि । तदानप लिखनोपकरणानि, पथा ज्यरजित्वरं मन्त्रवीजं विरचयामि ।


  1. उपाध्याय ! त्वमिव दुर्विपहतीत्रतेजाः दिननायः । तदेहि एनमेव माधवीमण्डपं प्रविशावः | इहैव घ्यानधारणादिकं भविष्यति ।
  2. इह ययेच्छं करोतु उपाध्यायः ध्यानधारणादिकम् ।
  3. किं पुन उपाध्याय एव प्रलुठति ।
  4. अहो ते दारुणो ज्वरः । ननु जानास्येव ज्वरवितारणमन्व्रम् । तत्कथं ष्ठाम्यसि ? ।