पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
वत्सराजप्रणीतरुपकसङ्ग्रहे


 (तदुपसृत्य वारयामि । उपप्तृत्य) अयि कुमार ! अयि शिलादसूनो ! स॒मादिशति वो भगवान्भर्गः । अयं हि भार्गयो मया पुत्रत्वेन सम्भावितस्तत्किमेतत्परिगृहीतं सर्वनापं दानवमभितापयन्मां ज्हेपयसि ।

 नन्दी-( स्वगतम्) अस्मदभिमनमेवोपक्रान्तमेतेन ) ( प्रकाशम्) यथाऽऽदिशति देचदेवः । ( कार्त्तिकेयं प्रति ) आयुप्मन्ननुल्लङ्वयः पितृनिदेशस्तदास्तां तावघृद्धम् ।

 कुमारः-( स्वगतं सखेद्दम्) अहो मे मन्दभाग्यता, यदेतस्य चिरादासादितस्याहवमहोत्सवस्य प्रत्यूहः समापतितः । ( प्रफाशम्) ( निश्वम्य ) यथाऽऽदिशन्ति तातपादाः । ( इति सपरिवारा निप्क्रमन्ति )

 शुक्रः--( सहर्पे स्वगतम् ) अहो ! दानवेषु क्रुद्धस्यापि भगवतो वृषभध्वजस्य मयि नवं नवं सन्मानम् ( प्रकाशम् ) अयेि दानवेश ! सर्वताप ! अपि वत्स विशदाशय ! इत आगम्यतां सम्भावयामः समरपीडितानस्रुरान् ।

( इति निष्क्रान्ताः संर्वे )

तृतीयोऽङ्कः