कष्टं कष्टं विनष्टैः कयमिव समरे दानवैजींवितव्यं |
विश०--( समर्थम् ) अयि कातराः! केयमाकुलता ! । नन्दति भृगुनन्दने क दानवानामपचयः ? । अपि दानवेश सर्यताप ! चिन्तय भार्गवं भगवन्तम् | अहमपि चिन्तयामि । ( उमौ चिन्तां नाटयतः)
(ततः प्रविशति भार्गवः )
भार्गवः-(सगर्वम् )
अशोष्योऽद्दमपेयोऽहमहार्योऽहमनक्ष्चरः । |
तां प्रतिजीविता दानवाः क्षपयन्तु देववाहिनीं, रक्षणीयः परमयं मम भ्राता कुमारः । अहं हि भगवता भर्गेण पुत्रः परिकल्पितोऽस्मि ।
नन्दी--(सखेदुम्) अये भार्गवः सम्प्राप्सः । अनेन हि देवदेवादेव भृतसंजीवनी विघा समासादिता । तदिदानीमायासैकफलो दनुजैः सह समरसंमद्दैः । न च मे महेशनिदेशमन्तरेण युज्यते समरादपावर्तयितुं कुमारः ।
(ततः प्रविशति नारदः )
नारदः--(सहर्यम्) अहो जगत्प्रभोः शम्भोर्मयि परिहासो, यदहमयि कलिप्रिय ! यारय कुमारसर्वतापयोः समरसम्मर्द्दमिति विहस्य प्रेपितोऽस्मि । ममापि न तादृगिदानां कलहावलोकनकुतूहलित्वम् । यदहं लोहपुरसमरसम्मर्दसंदर्शनेनार्द्धतृप्तो राजतपुरकदनावलोकनेन सुतरां सृतृसः संवृत्तः । अहह ! किमुच्यते लोहपुरप्लोषणेन । पवनपावकयोः शौर्य हिमांशोर्हिमवतक्ष्च नीहारभारेण राजतपुरपूरणम् । उभयत्रापि निर्गत्यरासुरसार्थवन्घने पाशपाणेर्लघुहस्तता । तावतामपि जीविनापहरणे किं चर्णयामि समरसामर्थ्यम् । तदिदाण्नीं त्वरितमपवर्तयामि समरत्तः कार्त्तिकेयम् । ( पुरोऽवलोक्य सहर्याश्चर्यम्) कथमयं कार्त्तिकेयो विथ्णुपदमभिवर्पति शरासारम् । अहह--
नायं मुखेनैव पितुर्महेशा- |