( ततः प्रविशति विशदाशयः )
विशदाशयः--(पुरोऽवलोक्य) कथमयं स्फुटाक्षर इवावलोक्यते ?। ( निपुणं निरूप्य ) मयाप्युदासीन एपः । किं पुनरसौ ससंरम्भ इव द्रुतपदैर्विभाव्यते ।
( ततः प्रविशति यथानिर्द्दिष्टः स्फुटाक्षरः )
स्फुटाक्षरः-कधं अप्यो विसदासओ!।ता पणमामि ण ।(सप्रश्रयमुपसृत्य) अय्य विसदासय ! सव्यसंदेहविसोवसमकारणे वत्मणोत्ति तुमं पणामामि एा उणा रायसविवत्तणाणुरोहेण[१] ।
( इति प्रणमति )
विशदा०-( सस्मितम् ) स्फुटाक्षर ! आयुष्मान्भव । किं पुनर्भवान्संरब्ध इव विभाव्यते ? ।
स्फुटा०-अय्य विसदासय ! को संरंभो[२] ? ।
धुत्तेर्हि मोहिदाणं अग्धन्ति ण सञ्चवघणरयणाओ । |
अहं खु दाणवनाहेण सव्वतावणेण पाआलमूलमुवगदाणं देवाणं वुत्तन्तं णिरूविदुं पेसिदोम्हि । तदो मए आगदुअ विण्णत्तं जहा किर नारयमहेसिणा विवरीददाणवविरइदमायापवंचंणिवेदिअ पिगवट्टिदा सव्वेवि देवा कअन्तभावमुवगदव्च कुद्धा तुम्हाणं पुराइं अहिद्दवन्ति । ता किज्ञ्नदु पडिविहाणं । तदो पहुदोम्हि । ता उव्विग्गो जामि णिाअभवणं । अय्यं पि अज्ज उव्विग्गं पिव पेक्खामि । ता किं नेदं ? ।
- ↑ कथमायों विशदाशयः । तत्प्रणमामि ननु । आर्य विशदाशय ! सर्वसन्देद्दविषोपशमकारणं ब्राह्मण इति त्वां प्रणमामि । न पुनः राजसचिवत्वानुरोधेन ।
- ↑ आर्य विशदाशय ! कः संरम्भः ।
धूर्तै: नार्हतानां नार्हन्ति सत्यवचनरत्नानि ।
अनभिज्ञानां प्रभूणामलीफालापेपु रत्तानाम् ॥अहं खळु दानवनाधेन सर्वनापनेन पातालमूलमुपगतानां देवानां वृत्तान्तं निरूपयितुं प्रेयितोऽस्मि । ततो मया उपगत्य विज्ञातं यथा किल नारदमहेश्ठिाना विपरीतदान्वविग्चितमायाप्रपञ्चं