पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विष्णुस्तोत्राणि | न जायते । रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥ १४ ॥ रक्षंतु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः | जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥१५॥ अटव्यां नारसिंहच सर्वतः पातु केशवः । दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चंद्रमाः ॥ १६ ॥ पंथानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः । रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥ १७ ॥ स्त्रीहंता बालघाती च सुरापो वृषलीपतिः । मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥ १८ ॥ अपुत्रो लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥ १९ ॥ आपदो हरते नित्यं विष्णुस्तोत्रार्थसं- पदा । यस्त्विदं पठते स्तोत्रं विष्णुपंजरमुत्तमम् ॥ २० ॥ मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति । गोसहस्र- फलं तस्य वाजपेयशतस्य च ॥ २१ ॥ अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः । सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥ २२ ॥ जले विष्णुः स्थले विष्णुर्विष्णुः पर्वत- मस्तके | ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥२३॥ इति श्रीब्रह्मांडपुराणे इंद्रनारदसंवादे श्रीविष्णु- पंजरस्तोत्रं संपूर्णम् || १३. श्रीमदच्युताष्टकम् । श्रीगणेशाय नमः ॥ अच्युताच्युत हरे परमात्मन् राम कृष्ण पुरुषोत्तम विष्णो । वासुदेव भगवन्ननिरुद्ध श्रीपते